Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.158
Pancharatra and Core: Due to his fate-afflicted intelligence, Karna did not release the celestial weapon before. Yudhishthira's lamentation on Ghatotkacha's death. Vyasa from nowhere appears and consoles Yudhishthira.
धृतराष्ट्र उवाच॥
कर्णदुर्योधनादीनां शकुनेः सौबलस्य च। अपनीतं महत्तात तव चैव विशेषतः ॥७-१५८-१॥
यदाजानीत तां शक्तिमेकघ्नीं सततं रणे। अनिवार्यामसह्यां च देवैरपि सवासवैः ॥७-१५८-२॥
सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा। न देवकीसुते मुक्ता फल्गुने वापि सञ्जय ॥७-१५८-३॥
सञ्जय उवाच॥
सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते। रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ॥७-१५८-४॥
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा। शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः ॥७-१५८-५॥
ततः प्रभातसमये राजन्कर्णस्य दैवतैः। अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः ॥७-१५८-६॥
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया। न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ॥७-१५८-७॥
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता। दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ॥७-१५८-८॥
कृष्णे वा देवकीपुत्रे मोहितो देवमायया। पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ॥७-१५८-९॥
धृतराष्ट्र उवाच॥
दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च। गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ॥७-१५८-१०॥
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः। अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् ॥७-१५८-११॥
भूय एव तु मे शंस यथा युद्धमवर्तत। कुरूणां पाण्डवानां च हैडिम्बे निहते तदा ॥७-१५८-१२॥
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः। सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ॥७-१५८-१३॥
सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च। अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥७-१५८-१४॥
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्। कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ॥७-१५८-१५॥
आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः। द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे ॥७-१५८-१६॥
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ। समार्छन्मामका युद्धे कथं सञ्जय शंस मे ॥७-१५८-१७॥
सिन्धुराजवधेनेमे घटोत्कचवधेन ते। अमर्षिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि ॥७-१५८-१८॥
सञ्जय उवाच॥
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे। प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥७-१५८-१९॥
आपतत्सु च वेगेन वध्यमाने बलेऽपि च। विगाढायां रजन्यां च राजा दैन्यं परं गतः ॥७-१५८-२०॥
अब्रवीच्च महाबाहुर्भीमसेनं परन्तपः। आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् ॥ हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् ॥७-१५८-२१॥
एवं भीमं समादिश्य स्वरथे समुपाविशत्। अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः ॥ कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ॥७-१५८-२२॥
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत्। मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते ॥ वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ॥७-१५८-२३॥
उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो। त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ॥७-१५८-२४॥
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः। विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ॥७-१५८-२५॥
विदिता ते महाबाहो धर्माणां परमा गतिः। ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ॥७-१५८-२६॥
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना। बालेनापि सता तेन कृतं साह्यं जनार्दन ॥७-१५८-२७॥
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम्। असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ॥ उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः ॥७-१५८-२८॥
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः। पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ॥७-१५८-२९॥
आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो। मदर्थं दुष्करं कर्म कृतं तेन महात्मना ॥७-१५८-३०॥
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन। सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ॥७-१५८-३१॥
भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे। येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः ॥७-१५८-३२॥
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः। द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ ॥७-१५८-३३॥
निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम्। गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् ॥७-१५८-३४॥
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव। चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः ॥७-१५८-३५॥
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः। निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥७-१५८-३६॥
कथमस्मासु जीवत्सु त्वयि चैव जनार्दन। हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः ॥७-१५८-३७॥
कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः। निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ॥७-१५८-३८॥
यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः। नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ॥७-१५८-३९॥
निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना। निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ॥७-१५८-४०॥
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम्। व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह ॥७-१५८-४१॥
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत्। अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी ॥ तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ॥७-१५८-४२॥
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना। सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ॥७-१५८-४३॥
यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः। द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः ॥७-१५८-४४॥
एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ। एतौ रणे समासाद्य पराश्वस्तः सुयोधनः ॥७-१५८-४५॥
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः। तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ॥७-१५८-४६॥
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः। ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ॥ भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः ॥७-१५८-४७॥
एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः। स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ॥७-१५८-४८॥
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः। वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः ॥ वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् ॥७-१५८-४९॥
ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः। पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ॥७-१५८-५०॥
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम्। एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः ॥ जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ॥७-१५८-५१॥
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत्। दूरं च यातं राजानमन्वगच्छज्जनार्दनः ॥७-१५८-५२॥
तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया। शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना ॥ अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ॥७-१५८-५३॥
कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः। सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ॥७-१५८-५४॥
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ। सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ॥७-१५८-५५॥
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः। वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ॥७-१५८-५६॥
ततो भवेत्ते व्यसनं घोरं भरतसत्तम। दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ॥७-१५८-५७॥
वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ। तवैव कारणाद्रक्षो निहतं तात संयुगे ॥७-१५८-५८॥
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः। प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ॥७-१५८-५९॥
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः। कौरवान्समरे राजन्नभियुध्यस्व भारत ॥ पञ्चमे दिवसे चैव पृथिवी ते भविष्यति ॥७-१५८-६०॥
नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय। आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ॥७-१५८-६१॥
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः। इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ॥७-१५८-६२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.