Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.156
Pancharatra and Core: Krishna explains his tactful moves with respect to Naiṣāda, Jarasandha, and Ghatotkacha, and also assures he will continue to act towards death of Karna and Duryodhana.
अर्जुन उवाच॥
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन। जरासन्धप्रभृतयो घातिताः पृथिवीष्वराः ॥७-१५६-१॥
वासुदेव उवाच॥
जरासन्धश्चेदिराजो नैषादिश्च महाबलः। यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः ॥७-१५६-२॥
सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान्। तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान् ॥७-१५६-३॥
ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः। धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव ॥७-१५६-४॥
सूतपुत्रो जरासन्धश्चेदिराजो निषादजः। सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ॥७-१५६-५॥
योगैरपि हता यैस्ते तान्मे शृणु धनञ्जय। अजय्या हि विना योगैर्मृधे ते दैवतैरपि ॥७-१५६-६॥
एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम्। योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ॥७-१५६-७॥
जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः। अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम् ॥७-१५६-८॥
सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम्। व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः ॥७-१५६-९॥
तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः। प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ॥७-१५६-१०॥
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि। दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ॥७-१५६-११॥
तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा। सन्धयामास तं जातं जरासन्धमरिंदमम् ॥७-१५६-१२॥
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक्। तया स सन्धितो यस्माज्जरासन्धस्ततः स्मृतः ॥७-१५६-१३॥
सा तु भूमिगता पार्थ हता ससुतबान्धवा। गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ॥७-१५६-१४॥
विनाभूतः स गदया जरासन्धो महामृधे। निहतो भीमसेनेन पश्यतस्ते धनञ्जय ॥७-१५६-१५॥
यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान्। सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ॥७-१५६-१६॥
त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः। द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥७-१५६-१७॥
स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः। अस्यन्नेको वनचरो बभौ राम इवापरः ॥७-१५६-१८॥
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः। सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ॥७-१५६-१९॥
किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम्। दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ॥७-१५६-२०॥
त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि। चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ॥७-१५६-२१॥
स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वैः सुरासुरैः। वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ॥७-१५६-२२॥
त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया। हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ॥ रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥७-१५६-२३॥
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः। हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ॥७-१५६-२४॥
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे। मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ॥७-१५६-२५॥
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया। एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः ॥७-१५६-२६॥
धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः। व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ ॥७-१५६-२७॥
ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव। धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥७-१५६-२८॥
ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा। यत्र तत्र रमे नित्यमहं सत्येन ते शपे ॥७-१५६-२९॥
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति। उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥७-१५६-३०॥
सुयोधनं चापि रणे हनिष्यति वृकोदरः। तस्य चापि वधोपायं वक्ष्यामि तव पाण्डव ॥७-१५६-३१॥
वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति। विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥७-१५६-३२॥
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव। दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥७-१५६-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.