Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.166
धृतराष्ट्र उवाच॥
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय। ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ॥७-१६६-१॥
मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान्। ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ॥७-१६६-२॥
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन सञ्जय। श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥७-१६६-३॥
येन रामादवाप्येह धनुर्वेदं महात्मना। प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे ॥७-१६६-४॥
एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम्। इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथञ्चन ॥७-१६६-५॥
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम्। तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ॥७-१६६-६॥
स शिल्पं प्राप्य तत्सर्वं सविशेषं च सञ्जय। शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः ॥७-१६६-७॥
रामस्यानुमतः शास्त्रे पुरंदरसमो युधि। कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ॥७-१६६-८॥
महीधरसमो धृत्या तेजसाग्निसमो युवा। समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः ॥७-१६६-९॥
स रथी प्रथमो लोके दृढधन्वा जितक्लमः। शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ॥७-१६६-१०॥
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता। यो न व्यथति सङ्ग्रामे वीरः सत्यपराक्रमः ॥७-१६६-११॥
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः। महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ॥७-१६६-१२॥
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे। श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥७-१६६-१३॥
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना। यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ॥७-१६६-१४॥
तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना। श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥७-१६६-१५॥
सञ्जय उवाच॥
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा। बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ॥७-१६६-१६॥
तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत। अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ॥७-१६६-१७॥
अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः। उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ॥७-१६६-१८॥
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः। धर्मध्वजवता पापं कृतं तद्विदितं मम ॥ अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् ॥७-१६६-१९॥
युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ। द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ॥७-१६६-२०॥
न्यायवृत्तो वधो यस्तु सङ्ग्रामे युध्यतो भवेत्। न स दुःखाय भवति तथा दृष्टो हि स द्विजः ॥७-१६६-२१॥
गतः स वीरलोकाय पिता मम न संशयः। न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः ॥७-१६६-२२॥
यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान्। पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ॥७-१६६-२३॥
कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः। वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ॥७-१६६-२४॥
तदिदं पार्षतेनेह महदाधर्मिकं कृतम्। अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ॥७-१६६-२५॥
तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम्। अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ॥७-१६६-२६॥
यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा। तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ॥७-१६६-२७॥
सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे। धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् ॥७-१६६-२८॥
कर्मणा येन तेनेह मृदुना दारुणेन वा। पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ॥७-१६६-२९॥
यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः। प्रेत्य चेह च सम्प्राप्तं त्राणाय महतो भयात् ॥७-१६६-३०॥
पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा। मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ॥७-१६६-३१॥
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम्। यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् ॥७-१६६-३२॥
स तथाहं करिष्यामि यथा भरतसत्तम। परलोकगतस्यापि गमिष्याम्यनृणः पितुः ॥७-१६६-३३॥
आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः। पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ॥७-१६६-३४॥
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः। मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः ॥७-१६६-३५॥
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः। अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ ॥७-१६६-३६॥
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः। अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ॥ प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ॥७-१६६-३७॥
कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे। दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् ॥७-१६६-३८॥
अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः। आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ॥७-१६६-३९॥
किरन्हि शरजालानि सर्वतो भैरवस्वरम्। शत्रून्निपातयिष्यामि महावात इव द्रुमान् ॥७-१६६-४०॥
न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः। न भीमसेनो न यमौ न च राजा युधिष्ठिरः ॥७-१६६-४१॥
न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः। यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् ॥७-१६६-४२॥
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्। उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते ॥७-१६६-४३॥
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ। वव्रे पिता मे परममस्त्रं नारायणं ततः ॥७-१६६-४४॥
अथैनमब्रवीद्राजन्भगवान्देवसत्तमः। भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ॥७-१६६-४५॥
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन। न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ॥७-१६६-४६॥
न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो। अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् ॥७-१६६-४७॥
वधः सङ्ख्ये द्रवश्चैव शस्त्राणां च विसर्जनम्। प्रयाचनं च शत्रूणां गमनं शरणस्य च ॥७-१६६-४८॥
एते प्रशमने योगा महास्त्रस्य परन्तप। सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे ॥७-१६६-४९॥
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः। त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः ॥ अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि ॥७-१६६-५०॥
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः। एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना ॥७-१६६-५१॥
तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान्। विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ॥७-१६६-५२॥
यथा यथाहमिच्छेयं तथा भूत्वा शरा मम। निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ॥७-१६६-५३॥
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः। अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ॥ परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् ॥७-१६६-५४॥
सोऽहं नारायणास्त्रेण महता शत्रुतापन। शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥७-१६६-५५॥
मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः। पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते ॥७-१६६-५६॥
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी। ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः ॥७-१६६-५७॥
भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः। तथा ननाद वसुधा खुरनेमिप्रपीडिता ॥ स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ॥७-१६६-५८॥
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्। समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् ॥७-१६६-५९॥
तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत। प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ॥७-१६६-६०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.