07.165
Pancharatra and Core: Bhima insults Drona for violating the duty of a Brahmana. Drona, being dejected, gives up arms, while Dhrishtadyumna severs his head and throws it at the Kaurava army. The Kaurava army retreats in panic.
सञ्जय उवाच॥
क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे। रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ॥७-१६५-१॥
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत। छत्राणां चापविद्धानां चामराणां च संयुगे ॥७-१६५-२॥
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः। सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाभवत् ॥७-१६५-३॥
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम। चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ॥७-१६५-४॥
वर्तमाने तथा युद्धे घोरे देवासुरोपमे। अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ॥ अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ॥७-१६५-५॥
एष वै पार्षतो वीरो भारद्वाजेन सङ्गतः। घटते च यथाशक्ति भारद्वाजस्य नाशने ॥७-१६५-६॥
यादृशानि हि रूपाणि दृश्यन्ते नो महारणे। अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः ॥ ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत ॥७-१६५-७॥
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः। अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः ॥७-१६५-८॥
तान्समापततः सर्वान्भारद्वाजो महारथः। अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः ॥७-१६५-९॥
प्रयाते सत्यसन्धे तु समकम्पत मेदिनी। ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् ॥७-१६५-१०॥
पपात महती चोल्का आदित्यान्निर्गतेव ह। दीपयन्तीव तापेन शंसन्तीव महद्भयम् ॥७-१६५-११॥
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष। रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ॥७-१६५-१२॥
हतौजा इव चाप्यासीद्भारद्वाजो महारथः। ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ॥ सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ॥७-१६५-१३॥
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः। निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ॥७-१६५-१४॥
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः। दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः ॥७-१६५-१५॥
सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः। क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः ॥७-१६५-१६॥
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी। अविषण्णं महात्मानं त्वरमाणः समभ्ययात् ॥७-१६५-१७॥
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः। अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ॥७-१६५-१८॥
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान्। त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ॥७-१६५-१९॥
स तथोक्तो महाबाहुः सर्वभारसहं नवम्। अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ॥७-१६५-२०॥
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे। विवारयिषुराचार्यं शरवर्षैरवाकिरत् ॥७-१६५-२१॥
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ। उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ॥७-१६५-२२॥
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे। निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ॥७-१६५-२३॥
स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि। रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ॥७-१६५-२४॥
धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान्। बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ॥७-१६५-२५॥
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः। मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ॥७-१६५-२६॥
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम्। शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ॥७-१६५-२७॥
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः। स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ॥७-१६५-२८॥
अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः। तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ॥७-१६५-२९॥
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान्। अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया ॥७-१६५-३०॥
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा। स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ॥७-१६५-३१॥
स चाद्य पतितः शेते पृष्टेनावेदितस्तव। धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि ॥७-१६५-३२॥
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः। सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ॥ कर्ण कर्ण महेष्वास कृप दुर्योधनेति च ॥७-१६५-३३॥
सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः। पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् ॥७-१६५-३४॥
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च। उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च ॥ अभयं सर्वभूतानां प्रददौ योगयुक्तवान् ॥७-१६५-३५॥
तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः। खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ॥७-१६५-३६॥
हाहाकृतानि भूतानि मानुषाणीतराणि च। द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ॥७-१६५-३७॥
हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन्। द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः ॥७-१६५-३८॥
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः। दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् ॥७-१६५-३९॥
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते। एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः ॥ समपद्यत चार्काभे भारद्वाजनिशाकरे ॥७-१६५-४०॥
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत। आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ॥ ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ॥७-१६५-४१॥
वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः। योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ॥७-१६५-४२॥
अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः। वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः ॥७-१६५-४३॥
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः। महिमानं महाराज योगमुक्तस्य गच्छतः ॥७-१६५-४४॥
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः। नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः ॥ आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम् ॥७-१६५-४५॥
वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम्। धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ॥७-१६५-४६॥
तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः। किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ॥७-१६५-४७॥
हर्षेण महता युक्तो भारद्वाजे निपातिते। सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ॥७-१६५-४८॥
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः। त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ॥७-१६५-४९॥
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः। जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ॥७-१६५-५०॥
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह। उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् ॥७-१६५-५१॥
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः। धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ॥७-१६५-५२॥
शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः। लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत ॥ एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः ॥७-१६५-५३॥
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत्। तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ॥७-१६५-५४॥
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः। पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् ॥७-१६५-५५॥
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत्। अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप ॥७-१६५-५६॥
ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च। विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव ॥ अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ॥७-१६५-५७॥
हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः। अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ॥७-१६५-५८॥
निहता हयभूयिष्ठाः सङ्ग्रामे निशितैः शरैः। तावका निहते द्रोणे गतासव इवाभवन् ॥७-१६५-५९॥
पराजयमथावाप्य परत्र च महद्भयम्। उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः ॥७-१६५-६०॥
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः। नाध्यगच्छंस्तदा राजन्कबन्धायुतसङ्कुले ॥७-१६५-६१॥
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः। बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥७-१६५-६२॥
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः। वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ॥७-१६५-६३॥
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम्। भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत ॥ सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ॥७-१६५-६४॥
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः। बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ॥७-१६५-६५॥
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि। क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ॥७-१६५-६६॥
पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते। अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ॥७-१६५-६७॥
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः। हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ॥७-१६५-६८॥
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः। आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ॥७-१६५-६९॥
रजस्वला वेपमाना वीक्षमाणा दिशो दश। अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ॥७-१६५-७०॥
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव। अशक्नुवन्नवस्थातुमपायात्तनयस्तव ॥७-१६५-७१॥
क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत। आदित्येन च सन्तप्ता भृशं विमनसोऽभवन् ॥७-१६५-७२॥
भास्करस्येव पतनं समुद्रस्येव शोषणम्। विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् ॥७-१६५-७३॥
अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम्। त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ॥७-१६५-७४॥
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह। हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः ॥७-१६५-७५॥
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम्। परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ॥७-१६५-७६॥
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम्। मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् ॥७-१६५-७७॥
हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः। वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् ॥७-१६५-७८॥
भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः। कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ॥७-१६५-७९॥
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः। उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ॥७-१६५-८०॥
दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः। दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ॥७-१६५-८१॥
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः। दुर्योधनो महाराज प्रायात्तत्र महारथः ॥७-१६५-८२॥
गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः। प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ॥७-१६५-८३॥
नेदमस्तीति पुरुषा हतोत्साहा हतौजसः। उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ॥७-१६५-८४॥
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ। तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे ॥७-१६५-८५॥
धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलङ्कृतान्। अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ॥७-१६५-८६॥
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि। प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ॥७-१६५-८७॥
हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः। कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः ॥७-१६५-८८॥
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम्। दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् ॥७-१६५-८९॥
किमियं द्रवते सेना त्रस्तरूपेव भारत। द्रवमाणां च राजेन्द्र नावस्थापयसे रणे ॥७-१६५-९०॥
त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप। कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः ॥७-१६५-९१॥
अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा। कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत ॥७-१६५-९२॥
कस्मिन्निदं हते राजन्रथसिंहे बलं तव। एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव ॥७-१६५-९३॥
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम्। घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः ॥७-१६५-९४॥
भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे। बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ॥७-१६५-९५॥
ततः शारद्वतं राजा सव्रीडमिदमब्रवीत्। शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् ॥७-१६५-९६॥
अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः। शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ॥७-१६५-९७॥
कृप उवाच॥
वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम्। प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलैः ॥७-१६५-९८॥
ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः। अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ॥७-१६५-९९॥
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः। अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ॥७-१६५-१००॥
पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः। सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ॥७-१६५-१०१॥
सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम्। द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे ॥७-१६५-१०२॥
आकर्णपलितः श्यामो वयसाशीतिपञ्चकः। रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥७-१६५-१०३॥
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु। अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् ॥७-१६५-१०४॥
तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित्। दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ॥७-१६५-१०५॥
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान्। मध्यङ्गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् ॥७-१६५-१०६॥
ते दह्यमाना द्रोणेन सूर्येणेव विराजता। दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः ॥७-१६५-१०७॥
तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः। जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ॥७-१६५-१०८॥
नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः। अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः ॥७-१६५-१०९॥
ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः। यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥७-१६५-११०॥
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम। हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः ॥७-१६५-१११॥
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः। अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ॥७-१६५-११२॥
भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव। अश्वत्थामा हत इति तच्चाबुध्यत ते पिता ॥७-१६५-११३॥
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत। हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः ॥७-१६५-११४॥
तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः। अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत ॥ भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ॥७-१६५-११५॥
उपसृत्य तदा द्रोणमुच्चैरिदमभाषत। यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि ॥ पुत्रस्ते दयितो नित्यं शोऽश्वत्थामा निपातितः ॥७-१६५-११६॥
तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम्। नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा ॥७-१६५-११७॥
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम्। पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ॥७-१६५-११८॥
तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः। दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् ॥७-१६५-११९॥
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा। पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ॥७-१६५-१२०॥
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन्। तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ॥७-१६५-१२१॥
उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः। जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् ॥७-१६५-१२२॥
तथापि वार्यमाणेन कौरवैरर्जुनेन च। हत एव नृशंसेन पिता तव नरर्षभ ॥७-१६५-१२३॥
सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः। वयं चापि निरुत्साहा हते पितरि तेऽनघ ॥७-१६५-१२४॥
सञ्जय उवाच॥
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे। क्रोधमाहारयत्तीव्रं पदाहत इवोरगः ॥७-१६५-१२५॥