07.167
सञ्जय उवाच॥
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा। प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥७-१६७-१॥
चचाल पृथिवी चापि चुक्षुभे च महोदधिः। प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ॥७-१६७-२॥
शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत। अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ॥७-१६७-३॥
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्। सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥७-१६७-४॥
देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते। कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥७-१६७-५॥
व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः। तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् ॥७-१६७-६॥
धृतराष्ट्र उवाच॥
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे। भृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥७-१६७-७॥
कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे। को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ॥७-१६७-८॥
सञ्जय उवाच॥
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः। पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत ॥७-१६७-९॥
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे। निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥७-१६७-१०॥
नाशंसन्त जयं युद्धे दीनात्मानो धनञ्जय। आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ॥७-१६७-११॥
केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः। विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥७-१६७-१२॥
भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः। भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः ॥ युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः ॥७-१६७-१३॥
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः। शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ॥७-१६७-१४॥
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः। सञ्छिन्ना नेमिषु गता मृदिताश्च हयद्विपैः ॥७-१६७-१५॥
क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात्। नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ॥७-१६७-१६॥
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्। जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ॥७-१६७-१७॥
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्। पुनरावर्तितं केन यदि जानासि शंस मे ॥७-१६७-१८॥
हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम्। रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् ॥७-१६७-१९॥
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे। मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् ॥७-१६७-२०॥
य एष तुमुलः शब्दः श्रूयते लोमहर्षणः। सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ॥७-१६७-२१॥
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः। द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ॥७-१६७-२२॥
प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः। धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥७-१६७-२३॥
क एष कौरवान्दीर्णानवस्थाप्य महारथः। निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥७-१६७-२४॥
अर्जुन उवाच॥
उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः। धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ॥७-१६७-२५॥
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते। धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ॥७-१६७-२६॥
ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्। व्याख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ॥७-१६७-२७॥
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्। ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥७-१६७-२८॥
जातमात्रेण वीरेण येनोच्चैःश्रवसा इव। हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥७-१६७-२९॥
तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा। अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥७-१६७-३०॥
योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा। कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥७-१६७-३१॥
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्। तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ॥७-१६७-३२॥
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्। धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥७-१६७-३३॥
सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः। नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥७-१६७-३४॥
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्। आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥७-१६७-३५॥
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः। आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥७-१६७-३६॥
स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः। शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥७-१६७-३७॥
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्। रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ॥७-१६७-३८॥
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना। सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥७-१६७-३९॥
सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः। सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥७-१६७-४०॥
विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि। अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ॥७-१६७-४१॥
यदा गतं वयो भूयः शिष्टमल्पतरं च नः। तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् ॥७-१६७-४२॥
पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः। सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ॥७-१६७-४३॥
धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते। विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥७-१६७-४४॥
स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः। अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ॥७-१६७-४५॥
अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः। न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥७-१६७-४६॥
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः। कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः ॥७-१६७-४७॥
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः। त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ॥७-१६७-४८॥
स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः। तस्मादवाक्षिरा राजन्प्राप्तोऽस्मि नरकं विभो ॥७-१६७-४९॥
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम्। घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥७-१६७-५०॥