Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.010
सञ्जय उवाच॥
श्रुतकर्मा महाराज चित्रसेनं महीपतिम्। आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ॥८-१०-१॥
अभिसारस्तु तं राजा नवभिर्निशितैः शरैः। श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ॥८-१०-२॥
श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे। नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् ॥८-१०-३॥
एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः। नवत्या जगतीपालं छादयामास पत्रिभिः ॥८-१०-४॥
प्रतिलब्य ततः सञ्ज्ञां चित्रसेनो महारथः। धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥८-१०-५॥
सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम्। चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः ॥८-१०-६॥
स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा। युवेव समशोभत्स गोष्ठीमध्ये स्वलङ्कृतः ॥८-१०-७॥
श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे। बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥८-१०-८॥
श्रुतकर्मापि समरे नाराचेन समर्दितः। सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः ॥८-१०-९॥
ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः। रराज समरे राजन्सपुष्प इव किंशुकः ॥८-१०-१०॥
श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः। शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् ॥८-१०-११॥
अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः। विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः ॥८-१०-१२॥
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः। जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ॥८-१०-१३॥
तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः। यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले ॥८-१०-१४॥
राजानं निहतं दृष्ट्वा अभिसारं च मारिष। अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥८-१०-१५॥
ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः। अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ॥ द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत ॥८-१०-१६॥
प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः। सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः ॥८-१०-१७॥
तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत्। स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥८-१०-१८॥
प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः। पञ्चभिर्निशितैर्बाणैरथैनं सम्प्रजघ्निवान् ॥८-१०-१९॥
ततः शक्तिं महाराज हेमदण्डां दुरासदाम्। प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव ॥८-१०-२०॥
तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात्। द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ॥८-१०-२१॥
सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः। युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः ॥८-१०-२२॥
शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम्। प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ॥८-१०-२३॥
सा जघान हयांस्तस्य सारथिं च महारणे। रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ॥८-१०-२४॥
एतस्मिन्नेव काले तु रथादाप्लुत्य भारत। शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलङ्कृताम् ॥८-१०-२५॥
तामापतन्तीं जग्राह चित्रो राजन्महामनाः। ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत ॥८-१०-२६॥
समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा। निर्भिद्य दक्षिणं बाहुं निपपात महीतले ॥ पतिताभासयच्चैव तं देशमशनिर्यथा ॥८-१०-२७॥
प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम्। प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाम्यया ॥८-१०-२८॥
स तस्य देवावरणं भित्त्वा हृदयमेव च। जगाम धरणीं तूर्णं महोरग इवाशयम् ॥८-१०-२९॥
स पपात तदा राजंस्तोमरेण समाहतः। प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ ॥८-१०-३०॥
चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः। अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ॥८-१०-३१॥
सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः। त एनं छादयामासुः सूर्यमभ्रगणा इव ॥८-१०-३२॥
तानपास्य महाबाहुः शरजालेन संयुगे। व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ॥८-१०-३३॥
ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप। विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥८-१०-३४॥
विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः। द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ॥८-१०-३५॥
ततः समागमो घोरो बभूव सहसा तयोः। यथा देवासुरे युद्धे वृत्रवासवयोरभूत् ॥८-१०-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.