08.015
धृतराष्ट्र उवाच॥
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः। न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम् ॥८-१५-१॥
तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम्। शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥८-१५-२॥
सञ्जय उवाच॥
द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान्। समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ॥८-१५-३॥
तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते। वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ॥८-१५-४॥
स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः। कर्णस्यानीकमवधीत्परिभूत इवान्तकः ॥८-१५-५॥
तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम्। कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ॥८-१५-६॥
व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून्। सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥८-१५-७॥
द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान्। सपादरक्षानवधीद्वज्रेणारीनिवारिहा ॥८-१५-८॥
सशक्तिप्रासतूणीरानश्वारोहान्हयानपि। पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् ॥८-१५-९॥
दाक्षिणात्यांश्च भोजांश्च क्रूरान्सङ्ग्रामकर्कशान्। विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥८-१५-१०॥
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे। दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्ततरोऽभ्ययात् ॥८-१५-११॥
आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत्। प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ॥८-१५-१२॥
राजन्कमलपत्राक्ष प्रधानायुधवाहन। वज्रसंहननप्रख्य प्रधानबलपौरुष ॥८-१५-१३॥
मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः। दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥८-१५-१४॥
शरवर्षैर्महावेगैरमित्रानभिवर्षतः। मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥८-१५-१५॥
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून्। मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः ॥८-१५-१६॥
महता रथघोषेण दिवं भूमिं च नादयन्। वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव ॥८-१५-१७॥
संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान्। मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ॥८-१५-१८॥
एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः। कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥८-१५-१९॥
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः। स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ॥८-१५-२०॥
ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः। गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् ॥८-१५-२१॥
तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः। चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ॥८-१५-२२॥
अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः। धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ॥८-१५-२३॥
विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा। ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः ॥ इषुसम्बाधमाकाशमकरोद्दिश एव च ॥८-१५-२४॥
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः। जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ॥८-१५-२५॥
प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः। चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ॥८-१५-२६॥
अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः। प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥८-१५-२७॥
अष्टावष्टगवान्यूहुः शकटानि यदायुधम्। अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥८-१५-२८॥
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम्। ये ये ददृशिरे तत्र विसञ्ज्ञाः प्रायशोऽभवन् ॥८-१५-२९॥
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम्। आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् ॥८-१५-३०॥
द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम्। वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ॥८-१५-३१॥
तस्य नानदतः केतुं चन्दनागुरुभूषितम्। मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥८-१५-३२॥
सूतमेकेषुणा हत्वा महाजलदनिस्वनम्। धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ॥८-१५-३३॥
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च। प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ॥८-१५-३४॥
हतेश्वरो दन्तिवरः सुकल्पित; स्त्वराभिसृष्टः प्रतिशर्मगो बली। तमध्यतिष्ठन्मलयेश्वरो महा; न्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ॥८-१५-३५॥
स तोमरं भास्कररश्मिसंनिभं; बलास्त्रसर्गोत्तमयत्नमन्युभिः। ससर्ज शीघ्रं प्रतिपीडयन्गजं; गुरोः सुतायाद्रिपतीश्वरो नदन् ॥८-१५-३६॥
मणिप्रतानोत्तमवज्रहाटकै; रलङ्कृतं चांशुकमाल्यमौक्तिकैः। हतोऽस्यसावित्यसकृन्मुदा नद; न्पराभिनद्द्रौणिवराङ्गभूषणम् ॥८-१५-३७॥
तदर्कचन्द्रग्रहपावकत्विषं; भृशाभिघातात्पतितं विचूर्णितम्। महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा ॥८-१५-३८॥
ततः प्रजज्वाल परेण मन्युना; पदाहतो नागपतिर्यथा तथा। समादधे चान्तकदण्डसंनिभा; निषूनमित्रान्तकरांश्चतुर्दश ॥८-१५-३९॥
द्विपस्य पादाग्रकरान्स पञ्चभि; र्नृपस्य बाहू च शिरोऽथ च त्रिभिः। जघान षड्भिः षडृतूत्तमत्विषः; स पाण्ड्यराजानुचरान्महारथान् ॥८-१५-४०॥
सुदीर्घवृत्तौ वरचन्दनोक्षितौ; सुवर्णमुक्तामणिवज्रभूषितौ। भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुस्तार्क्ष्यहताविवोरगौ ॥८-१५-४१॥
शिरश्च तत्पूर्णशशिप्रभाननं; सरोषताम्रायतनेत्रमुन्नसम्। क्षितौ विबभ्राज पतत्सकुण्डलं; विशाखयोर्मध्यगतः शशी यथा ॥८-१५-४२॥
समाप्तविद्यं तु गुरोः सुतं नृपः; समाप्तकर्माणमुपेत्य ते सुतः। सुहृद्वृतोऽत्यर्थमपूजयन्मुदा; जिते बलौ विष्णुमिवामरेश्वरः ॥८-१५-४३॥