09.000
Śalya Parva - Kumbhaghonam edition
००१. दुर्योधनेन शल्यस्य सैनापत्येऽभिषेचनपूर्वकं पुनर्युद्धाय निर्याणम्॥१॥सञ्जयाच्छल्यदुर्योधनादिवधश्रवणेन मूर्च्छितस्य धृतराष्ट्रस्य विदुरेण समाश्वासनम्॥२॥(56)
००२. पार्थेन निहते कर्णे पाण्डवभयात्पलायमानां सेनां निवर्त्य दुर्योधनस्य पुनर्युद्धोद्यमः॥१॥(62)
००३. कृपेण कर्णवधदुःखितं दुर्योधनं प्रति स्वपरक्षयोर्दौर्बल्यप्राबल्याभिधानपूर्वकमुपायं प्रदर्श्य सन्धिविधानम्॥१॥(51)
००४. दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम्॥१॥(52)
००५. दुर्योधनेन कृपम्प्रति कारणकथनपूर्वकं सन्ध्यनङ्गीकरणम्॥१॥(30)
००६. दुर्योधनेन शल्यस्य सैनापत्येऽमिषेचनम्॥१॥कृष्णेन युधिष्ठिरम्प्रति शल्यवधविधानम्॥२॥(44)
००७. उभयसैन्यानां व्यूहरचनापूर्वकं द्वन्द्वीभूय युद्धाय निर्गमनम्॥१॥(44)
००८. अष्टादशदिवसयुद्धारभ्यः॥१॥सङ्कुलयुद्धम्॥२॥(47)
००९. नकुकेन कर्णपुत्राणां त्रयाणां मारणम्॥१॥(69)
०१०. सङ्कुलयुद्धम्॥१॥(61)
०११. शल्यभीमयोर्गदायुद्धम्॥१॥(64)
०१२. शल्यपराक्रमवर्णनम्॥१॥(50)
०१३. सङ्कुलयुद्धम्॥१॥(46)
०१४. सङ्कुलयुद्धम्॥१॥(41)
०१५. शल्ययुधिष्ठिरयोर्युद्धम्॥१॥(75)
०१६. युधिष्ठिरेण शल्यशल्यानुजयोर्वधः॥१॥(86)
०१७. सङ्कुलयुद्धम्॥१॥(38)
०१८. सङ्कुलयुद्धम्॥१॥(70)
०१९. सात्यकिना साल्ववधः॥१॥(27)
०२०. सात्यकिना कृतवर्मपराजयः॥१॥(36)
०२१. सङ्कुलयुद्धम्॥१॥(48)
०२२. सङ्कुलयुद्धम्॥१॥(91)
०२३. अर्जुनेन दुर्योधनागर्हणपूर्वकं तत्सेनानिबर्हणम्॥१॥(68)
०२४. धृष्टद्युम्नपराजितेन दुर्योधनेनाश्वारोहणेन पलायनम्॥१॥अश्वत्थामादिभिस्तदन्वेषणम्॥२॥(62)
०२५. भीमेनावशिष्टानां दुर्योधनानुजानां वधः॥१॥(40)
०२६. कृष्णार्जुनयोः संवादः॥१॥सङ्कुलयुद्धम्॥२॥भीमेन सुदर्शननाम्नो दुर्योधनानुजस्य वधः॥३॥(56)
०२७. सहदेवेन शकुन्युलूकयोर्वधः॥१॥(66)
०२८. हतावशिष्टे बले पाण्डवैर्निहते दुर्योधनेन पलायने निर्धारणम्॥१॥(19)
०२९. पाण्डवैर्निहतसहायस्य दुर्योधनस्य गदामादाय हदं प्रति प्रस्थानम्॥१॥सञ्जयसंहारायासिमुद्यच्छता सात्यकिना व्यासवचनात्तद्विमोचनम्॥२॥हास्तिनपुरं गच्छतः सञ्जयस्य मध्येमार्गं दुर्योधनदर्शनम्॥३॥तेन तस्मिन्धृतराष्ट्राय स्ववृत्तान्तनिवेदनचोदनपूर्वकं हदं प्रविश्य मायया जलस्तम्भनम्॥४॥तत्रागतैर्द्रौणिकृपकृतवर्मभिः सञ्जयाद्दुर्योधनस्य हदप्रवेशं विज्ञाय विलप्य पुनः शिबिरगमनम्॥५॥ततो वृद्धपरिजनैर्युयुत्सुना च राजदाराणां नगरप्रापणम्॥६॥
०३०. कृपद्गौणिकृतवर्मसु हृदमेत्य दुर्योधनेन भापमाणेषु तत्र यदृच्छोपागतैर्व्याधैस्तद्दर्शनम्॥१॥व्याधनिवेदनेन सपरिवारैः पाण़्डवैर्ह्रदं प्रत्यागमनम्॥२॥तद्दर्शनेन कृपादिभिर्दुर्योधनाभ्यनुज्ञानेन दूरस्थन्यग्नोधतरुमेत्य तन्मूले उपवेशनम्॥३॥दुर्योधनेन पुनर्जलस्तम्भनेन ह्रदप्रवेशनम्॥४॥
०३१. युधिष्ठिरेण हदस्थं दुर्योधनं प्रति निष्ठुरोक्तिभिः सन्तर्जनम्॥१॥युधिष्ठिरदुर्योधनयोः संवादः॥२॥(73)
०३२. युधिष्ठिरकटुभाषणरुष्टेन सुयोधनेन गदयासह हदादुत्थानम्॥१॥युधिष्ठिरदुर्योधनयोः संवादः॥२॥(71)
०३३. युधिष्ठिरेण दुर्योधनम्प्रति स्वेष्वन्यतमपराजयेनापि तस्य राज्यप्राप्तिवचने कृष्णेन तम्प्रति सकोपं भीमेनापि दुर्योधनप राजये स्वस्य संशयोक्तिः॥१॥भीमेन कृष्णम्प्रति स्वसामर्थ्यप्रकथनपूर्वकं स्वेन दुर्योधनवधस्य सुकरत्वे कथिते कृष्णादिभिस्तत्प्रशंसनम्॥२॥भीमदुर्योधनयोर्वीरवादपुर्वकं युद्धोद्यमः॥३॥(58)
०३४. तस्मिन्पाण्ढवादिभिरर्चितोपविष्टे पुनर्गदायुद्धारम्भः॥२॥(20)
०३५. जनमेजयेन वैशम्पायनम्प्रति बलरामस्य तीर्थयात्राप्रकारप्रश्नः॥१॥तेन तम्प्रति तत्कथनमुपक्रम्य प्रभासतीर्थस्य तत्पदवाच्यत्वे हेतुकथनम्॥२॥(43)
०३६. चन्द्रे स्वभार्यास्वश्विन्यादिदंक्षपुत्रीषु इतरोपेक्षणेन रोहिण्यामेवासक्ते दक्षेण रोषाच्चन्द्रे यक्ष्मप्रक्षेपः॥१॥देवै प्रसादितदक्षवचनाच्चन्द्रेण प्रभासतीर्थनिमज्जनेन क्षयरोगपरिहरणम्॥२॥बलभद्रेण तत्तीर्थे मज्जनादि॥३॥(47)
०३७. एकतद्वितत्रितनामकानां विप्राणां कथा॥१॥(53)
०३८. बलभद्रस्य सरस्वतीतीरस्थानानातीर्थयात्राप्रकारवर्णनम्॥१॥तत्तत्तीर्थमहिमानुवर्णनं च॥२॥(65)
०३९. सरस्वत्याः सप्तधाविभागे कारणाभिधानम्॥१॥सप्तभागानां कस्मिंश्चित्तीर्थे एकीभवनात्तत्तीर्थस्य सप्तसारस्वतनामप्राप्तिः॥२॥मङ्कणमुनिचरितप्रतिपादनम्॥३॥(64)
०४०. बलरामस्यौशनसतीर्थगमनम्॥१॥तत्तीर्थस्य कपालमोचननामप्राप्तिहेतूक्तिः॥२॥बलस्य उशंग्वाश्रमगमनम्॥३॥उशङ्गुचरित्रकथनं बलस्य पृथूदकतीर्थे स्नानदानादि॥४॥(38)
०४१. आर्ष्टिषेणेन पृथूदकतीर्थे तपश्चर्यवा कृत्स्नवेदाधिगमः॥१॥विश्वामित्रादीनां तत्तत्तीर्थे तपश्चर्यया ब्राह्मण्याधिगम॥बलभद्रस्य तत्र स्नानादिपूर्वकं बकाश्रमम्प्रति गमनम्॥३॥(32)
०४२. बलदेवस्यावाकीर्णतीर्थगमनम्॥१॥बकमुनिचरित्रकथनम्॥२॥बलदेवस्य ततो वसिष्ठापवाहतीर्थगमनम्॥३॥(39)
०४३. वसिष्ठापवाहतीर्थस्य तन्नामप्राप्तिप्रकारकथनम्॥१॥
०४४. विश्वामित्रशापाद्रुधिरजलायाः सरस्वत्या ऋषिभिस्वपसा शोधनम्॥१॥इन्द्रेण सरस्वत्यरुणासङ्गमे यजनादिना ब्रह्महत्यापरिहरणम्॥२॥बलरामस्य तत्र स्नानादिपूर्वकं तस्मात्सोमतीर्थगमनम्॥३॥(49)
०४५. कुमारोत्पत्तिवर्णनम्॥१॥(53)
०४६. बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम्॥१॥ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम्॥२॥(115)
०४७. कुमारमातृगणस्य नामकीर्तनम्॥१॥कुमारेण तारकासुरवधः क्रौञ्चपर्वतभेदनं च॥२॥(109)
०४८. देवैर्वरुणस्य जलाधिपत्येऽभिषेचनम्॥१॥बलभद्रस्याग्नितीर्थकौबेरतीर्थगमनं तन्महिमानुवर्णनं च॥२॥(33)
०४९. बलरामस्य बदरपाचनतीर्थगमनम्॥१॥श्रुतावत्यरुन्धत्योर्महिमानुवर्णनम्॥२॥(66)
०५०. बलभद्रस्येरद्रतीर्थादिगमनम्॥१॥तत्तत्तीर्थमाहात्म्यकथनम्॥२॥(23)
०५१. देवलजैगीषव्ययोश्चरित्रकीर्तनम्॥१॥बलभद्रस्यादित्यतीर्थात्सोमतीर्थगमनम्॥२॥(67)
०५२. दधीचिसारस्वतयोश्चरितवर्णनम्॥१॥(53)
०५३. वृद्धकन्याचरित्रकथनम्॥१॥(29)
०५४. दलभद्राय महर्षिभिः कुरुक्षेत्रमहिमानुवर्णनम्॥१॥(30)
०५५. मित्रावरुणाश्रमे नारदाद्भीमदुर्योधनयोर्गदायुद्धोपक्रमश्राविणा बलरामेण तद्दिदृक्षया कुरुक्षेत्रं प्रत्यागमनम्॥१॥(42)
०५६. (अथ गदायुद्धपर्व॥३॥) गदायुद्धाय सन्नद्धयोर्भीमदुर्योधनयोर्वर्णनम्॥१॥(43)
०५७. भीमदुर्योधनयोर्वीरवादः॥१॥(46)
०५८. सञ्जय उवाच।(72)
०५९. भीमसेनेन दुर्योधनस्योरुभेदनम्॥१॥(61)
०६०. भीमसेनेन दुर्योधनापनयानुस्मारणपूर्वकं वामपादेन तच्छिरस्ताडनम्॥१॥युधिष्ठिरेण दुर्योधनसमाश्वासनम्॥२॥(31)
०६१. भीमे अपनयबुद्ध्या क्रुद्धेन बलरामेण लाङ्गलमुद्यम्य तम्प्रत्यभिगमनम्॥१॥कृष्णेन तत्सान्त्वनं ततो बलस्य द्वारकागमनम्॥२॥युधिष्ठिरस्य कृष्णेन भीमेन च संलापः॥३॥(57)
०६२. पाञ्चालादिभिर्भीमस्तुतिः॥१॥कृष्णादुर्योधनयोः परस्परगर्हणम्॥२॥दुर्योधनेनात्मस्तुतौ तन्मूर्धि गन्धर्वैः पुष्पवर्षणम्॥३॥भीष्मादिमरणेन दुःखितानां पाण्डवानां कृष्णेन समाश्वासनम्॥४॥(86)
०६३. पाञ्चालादिषु स्वस्वशिबिराण्युपगतेषु पाण्डवैर्दुर्योधनशिबिरमेत्य स्वस्वरथेभ्योऽवतरणम्॥१॥कृष्णे रथात्प्रथमं पार्थमवतार्थ पश्चात्स्वयमप्यवतीर्णे अग्निना तद्ग्रथस्य भस्मीकरणम्॥२॥कृष्णेनार्जुनम्प्रति रथदाहस्य कारणकथनम्॥३॥कृष्णचोदनया पाण्डवैरोघवतीतीरे रात्रौ निवसनम्॥४॥कृष्णेन युधिष्ठिरचोदनया गान्धार्याश्वासनाय हास्तिनपुरागमनम्॥५॥(54)
०६४. जनमेजयेन गान्धार्याश्वासनकारणप्रश्ने वैशम्पायनेन तत्कथनम्॥१॥कृष्णेन गान्धारीधृतराष्ट्रो समाश्वास्य पुनः पाण्डवसमीपागमनम्॥२॥(78)
०६५. सञ्जयेन धृतराष्ट्रंप्रति दुर्योधनविलापप्रकारकथनम्॥१॥वादिकैरश्वत्थाम्नि दुर्योधनपातननिवेदनम्॥२॥(43)
०६६. द्रौणिकृतकृतवर्मभिर्दुर्योधनस्य भूपतनदर्शनेन शोचनम्॥१॥द्रौणिदुर्योधनयोः संलापः॥२॥द्रौणिना रात्रौ पाण्डववधप्रतिज्ञानम्॥३॥दुर्योधनवचनात् कृपेण द्रौणेः सैनापत्येऽभिषेचनम्॥४॥(44)