Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.025
Core and Pancharatra: Bhimasena kills the remaining brothers of Duryodhana and causes a great slaughter of the Kaurava army, with only a few fleeing the battlefield.
सञ्जय उवाच॥
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत। वध्यमाने बले चैव भीमसेनेन संयुगे ॥९-२५-१॥
चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम्। दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् ॥९-२५-२॥
समेत्य समरे राजन्हतशेषाः सुतास्तव। अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव ॥ सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ॥९-२५-३॥
दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः। इत्येते सहिता भूत्वा तव पुत्राः समन्ततः ॥ भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् ॥९-२५-४॥
ततो भीमो महाराज स्वरथं पुनरास्थितः। मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ॥९-२५-५॥
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे। भीमसेनमपासेधन्प्रवणादिव कुञ्जरम् ॥९-२५-६॥
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह। क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ॥९-२५-७॥
ततोऽपरेण भल्लेन सर्वावरणभेदिना। श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ॥९-२५-८॥
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव। पातयामास कौरव्यं रथोपस्थादरिंदमः ॥ स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥९-२५-९॥
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष। शतेन गृध्रवाजानां शराणां नतपर्वणाम् ॥९-२५-१०॥
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्। त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ॥९-२५-११॥
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः। वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥९-२५-१२॥
ततोऽपरेण तीक्ष्णेन नाराचेन परन्तपः। दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥९-२५-१३॥
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः। गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥९-२५-१४॥
दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव। एकैकं न्यवधीत्सङ्ख्ये द्वाभ्यां द्वाभ्यां चमूमुखे ॥ तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥९-२५-१५॥
ततो यतन्तमपरमभिवीक्ष्य सुतं तव। भल्लेन युधि विव्याध भीमो दुर्विषहं रणे ॥ स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ॥९-२५-१६॥
दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे। अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ॥९-२५-१७॥
विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम्। विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ॥९-२५-१८॥
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे। अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥९-२५-१९॥
ततोऽन्यद्धनुरादाय भीमसेनो महारथः। अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् ॥९-२५-२०॥
महतासीत्तयोर्युद्धं चित्ररूपं भयानकम्। यादृशं समरे पूर्वं जम्भवासवयोरभूत् ॥९-२५-२१॥
तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः। समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ॥९-२५-२२॥
ततः श्रुतर्वा सङ्क्रुद्धो धनुरायम्य सायकैः। भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥९-२५-२३॥
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना। भीमः सञ्चुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥९-२५-२४॥
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष। सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् ॥९-२५-२५॥
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः। अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥९-२५-२६॥
श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी। अथास्याददतः खड्गं शतचन्द्रं च भानुमत् ॥ क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः ॥९-२५-२७॥
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः। पपात कायः स रथाद्वसुधामनुनादयन् ॥९-२५-२८॥
तस्मिन्निपतिते वीरे तावका भयमोहिताः। अभ्यद्रवन्त सङ्ग्रामे भीमसेनं युयुत्सवः ॥९-२५-२९॥
तानापतत एवाशु हतशेषाद्बलार्णवात्। दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् ॥ ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥९-२५-३०॥
ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः। पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥९-२५-३१॥
ततः पञ्चशतान्हत्वा सवरूथान्महारथान्। जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥९-२५-३२॥
हत्वा दश सहस्राणि पत्तीनां परमेषुभिः। वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥९-२५-३३॥
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव। मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥९-२५-३४॥
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्। ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ॥९-२५-३५॥
विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान्। दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥९-२५-३६॥
हतभूयिष्ठयोधा तु तव सेना विशां पते। किञ्चिच्छेषा महाराज कृपणा समपद्यत ॥९-२५-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.