09.026
Core and Pancharatra: Finally, Arjuna kills Susharman, the Trigarta King. Bhima kills Sudarshana, one more son of Dhritarastra.
सञ्जय उवाच॥
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः। हतशेषौ तदा सङ्ख्ये वाजिमध्ये व्यवस्थितौ ॥९-२६-१॥
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्। उवाच देवकीपुत्रः कुन्तीपुत्रं धनञ्जयम् ॥९-२६-२॥
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः। गृहीत्वा सञ्जयं चासौ निवृत्तः शिनिपुङ्गवः ॥९-२६-३॥
परिश्रान्तश्च नकुलः सहदेवश्च भारत। योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् ॥९-२६-४॥
सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः। कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥९-२६-५॥
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः। दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥९-२६-६॥
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः। छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः ॥९-२६-७॥
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः। एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ॥९-२६-८॥
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम। यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् ॥९-२६-९॥
यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति। परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥९-२६-१०॥
तव हत्वा बलं सर्वं सङ्ग्रामे धृतराष्ट्रजः। जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् ॥९-२६-११॥
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः। ध्रुवमेष्यति सङ्ग्रामे वधायैवात्मनो नृपः ॥९-२६-१२॥
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत्। धृतराष्ट्रसुताः सर्वे हता भीमेन मानद ॥ यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ॥९-२६-१३॥
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः। मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥९-२६-१४॥
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च। रथानां तु शते शिष्टे द्वे एव तु जनार्दन ॥ दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥९-२६-१५॥
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा। उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥९-२६-१६॥
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव। मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् ॥९-२६-१७॥
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम्। अद्याह्ना हि महाराजो हतामित्रो भविष्यति ॥९-२६-१८॥
न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये। ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः ॥ तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥९-२६-१९॥
अद्य युद्धे सुसङ्क्रुद्धो दीर्घं राज्ञः प्रजागरम्। अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः ॥९-२६-२०॥
निकृत्या वै दुराचारो यानि रत्नानि सौबलः। सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥९-२६-२१॥
अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः। श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ॥९-२६-२२॥
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति। अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति ॥९-२६-२३॥
नापयाति भयात्कृष्ण सङ्ग्रामाद्यदि चेन्मम। निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ॥९-२६-२४॥
मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम। सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥९-२६-२५॥
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना। अचोदयद्धयान्राजन्दुर्योधनबलं प्रति ॥९-२६-२६॥
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः। भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष ॥ प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥९-२६-२७॥
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान्। सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥९-२६-२८॥
सुदर्शनस्तव सुतो भीमसेनं समभ्ययात्। सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ॥ सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ॥९-२६-२९॥
ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप। प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥९-२६-३०॥
सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः। रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥९-२६-३१॥
प्रतिलभ्य ततः सञ्ज्ञां सहदेवो विशां पते। दुर्योधनं शरैस्तीक्ष्णैः सङ्क्रुद्धः समवाकिरत् ॥९-२६-३२॥
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनञ्जयः। शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥९-२६-३३॥
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः। पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥९-२६-३४॥
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः। अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥९-२६-३५॥
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः। ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥९-२६-३६॥
शिलाशितेन च विभो क्षुरप्रेण महायशाः। शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् ॥९-२६-३७॥
सत्येषुमथ चादत्त योधानां मिषतां ततः। यथा सिंहो वने राजन्मृगं परिबुभुक्षितः ॥९-२६-३८॥
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः। विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ॥९-२६-३९॥
ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसम्भृतम्। मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥९-२६-४०॥
तमर्जुनः पृषत्कानां शतेन भरतर्षभ। पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः ॥९-२६-४१॥
ततः शरं समादाय यमदण्डोपमं शितम्। सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥९-२६-४२॥
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना। सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥९-२६-४३॥
स गतासुर्महाराज पपात धरणीतले। नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥९-२६-४४॥
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान्। सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥९-२६-४५॥
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान्। अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥९-२६-४६॥
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप। सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ॥९-२६-४७॥
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत्। क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥९-२६-४८॥
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः। परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् ॥९-२६-४९॥
ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः। इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ॥ ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥९-२६-५०॥
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः। भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ॥ तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः ॥९-२६-५१॥
तथैव तावका राजन्पाण्डवेयान्महारथान्। शरवर्षेण महता समन्तात्पर्यवारयन् ॥९-२६-५२॥
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह। तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ॥९-२६-५३॥
तत्र योधास्तदा पेतुः परस्परसमाहताः। उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ॥९-२६-५४॥