Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.033
Pancharatra-Ext: Balarama arrives at the battle scene, desiring to watch the mace battle between his two disciples, after completing 42 days of pilgrimage .
सञ्जय उवाच॥
तस्मिन्युद्धे महाराज सम्प्रवृत्ते सुदारुणे। उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु ॥९-३३-१॥
ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते। श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ॥९-३३-२॥
तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः। शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन् ॥९-३३-३॥
अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम्। दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ॥९-३३-४॥
चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै। पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः ॥ शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव ॥९-३३-५॥
ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्। स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् ॥९-३३-६॥
कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्। सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ ॥९-३३-७॥
माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः। अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् ॥९-३३-८॥
भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप। तथैव चोद्यतगदौ पूजयामासतुर्बलम् ॥९-३३-९॥
स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः। पश्य युद्धं महाबाहो इति ते राममब्रुवन् ॥ एवमूचुर्महात्मानं रौहिणेयं नराधिपाः ॥९-३३-१०॥
परिष्वज्य तदा रामः पाण्डवान्सृञ्जयानपि। अपृच्छत्कुशलं सर्वान्पाण्डवांश्चामितौजसः ॥ तथैव ते समासाद्य पप्रच्छुस्तमनामयम् ॥९-३३-११॥
प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महामनाः। कृत्वा कुशलसंयुक्तां संविदं च यथावयः ॥९-३३-१२॥
जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे। मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ॥९-३३-१३॥
तौ चैनं विधिवद्राजन्पूजयामासतुर्गुरुम्। ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदा युतौ ॥९-३३-१४॥
ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिंदमम्। इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत ॥९-३३-१५॥
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः। न्यविशत्परमप्रीतः पूज्यमानो महारथैः ॥९-३३-१६॥
स बभौ राजमध्यस्थो नीलवासाः सितप्रभः। दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः ॥९-३३-१७॥
ततस्तयोः संनिपातस्तुमुलो रोमहर्षणः। आसीदन्तकरो राजन्वैरस्य तव पुत्रयोः ॥९-३३-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.