10.000
Sauptika Parva - Kumbhaghonam edition
००१. सञ्जयधृतराष्ट्रयोः संलापः॥ द्रौणिकृपकृतवर्मभिर्वनमध्यमेत्य न्यग्रोधस्याधस्तादुपवेशनम्॥ तत्र रात्रौ घूकेन बहुकाकावधदर्शिना द्रौणिना तद्वत्स्वेनापि पाण्डववधनिर्धारणम्॥ ततः कृपकृतवर्माणौ समुद्बौध्य स्वकर्तव्यकथनप्रार्थना॥(70)
००२. कृपेण द्रौणिम्प्रति कर्तव्योपदेशः॥(36)
००३. द्रौणिना कृपवचनमनादृत्य कृपकृतवर्मणोः पुरतः निशि प्रसुप्तपाण्डुपाञ्चालहननप्रतिज्ञानम्॥(36)
००४. द्रौणिकृपयोः संवादः॥(36)
००५. कृपेण प्रसुप्तमारणस्याधार्मिकत्वकथनेन प्रतिषेधनेऽपि पितृवधामर्षिणा द्रौणिना जिघांसया रिपुशिविरद्वारगमनम्॥ कृपकृतवर्मश्यामपि सौहार्दात्तदनुगमनम्॥(40)
००६. अश्वत्थाम्नः शिबिरद्वारस्थमहाभूतदर्शनम्॥ भूतजिगीषया द्रौणिविसृष्टानामस्त्रशस्त्राणां भूतेन ग्रसनम्॥ ततश्चिंतातान्तश्च द्रौणेर्महादेवोपासनाध्यवसायः॥(34)
००७. द्रौणिना शिवस्तुतिः॥ द्रौणेः पुरतः काञ्चनवेद्यामग्न्युद्भवः॥ द्रौणेः समीपे नानाविधभीषणभूतगणानामागमनम्॥ शिवेन आत्मनो हविष्ट्वकल्पनपूर्वकमग्नौ प्रविष्टाय द्रौणये खङ्गदानपूर्वकं तच्छरीरप्रवेशः॥पुनरश्वत्थाम्नः शिबिरगमनम्॥(67)
००८. शिबिरद्वारे कृपकृतवर्माणौ संस्थाप्यान्तः प्रविष्टेन द्रौणिना धृष्टद्युम्नादिपाञ्चालानां द्रौपदेयादीनां च वधः॥ भयाद्वहिर्निष्क्रान्तानां कृपकृतवर्मक्ष्यां वधः॥(164)
००९. द्रौणिकृपकृतवर्मभिर्दुर्योधनमेत्य शोचनम्॥ दुर्योधनम्प्रति द्रौणिना सुप्तजवधकथनम्॥ दुर्योधनेन प्राणत्यागः॥ द्रौण्यादीनां नगरगमनम्॥ सञ्जयस्य व्यासानुग्रहप्राप्तदिव्यज्ञाननाशः॥(63)
०१०. दैवादुर्वरितेन दृष्टद्युम्नसारथिना युधिष्ठिराय रात्रौ वृत्तशिबिरवृत्तान्तविनेदनम्॥
०११. मकुलेन युधिष्ठिरसमोषं प्रति द्रौपथानयनम्॥ द्रौपद्या द्रौणिमस्तकमणिहरणचोदितेन भीमेन नकुलसारथिना रथेन द्रौणिवभ्राय प्रस्थानम्॥ (32)
०१२. द्रौणिजिघांसया भीमे प्रतिगते कृष्णेन युधिष्ठिरम्प्रति द्रौणिदौश्शील्यादिकथनपूर्वकं भीमस्य ततो रक्षणीयत्वकथनम्॥
०१३. कृष्णादिभिर्भागीरथीतीरे व्याससमीपसमासीनद्रौणिदर्शनम्॥
०१४. अर्जुनेन कृष्णाज्ञया द्रौण्यस्त्रप्रत्यस्त्रप्रयोगः॥
०१५. अर्जुनेन व्यासनारदभावानुरोधेन स्वप्रयुक्तब्रह्मशिरोस्त्रप्रतिसंहारः॥ कृष्णेनाश्वत्थामानं प्रति उत्तरागर्भे ऐषीकास्त्रपातेऽपि मृतशिशोः स्वेन समुज्जीवनप्रतिज्ञा॥ ब्रह्मचर्याभावादस्रप्रतिसंहारासमर्थेन द्रौणिना व्यासकृष्णावनादृस्य पाण्वगर्भेष्वैषीकास्त्रोत्सर्जनम्॥
०१६. कृष्णेन स्ववचनोल्लङ्घनेनास्त्रप्रयोक्तुरश्वत्थाम्नः शापदानां व्यासेन तदनुमोदनं च॥ भीमेन द्रौणिमस्तकमणिदा नेन द्रौपदीसमाश्वासनम्॥ युधिष्ठिरेण द्रौपदीवचनात्स्वमस्तके तन्मणिधारणम्॥ (33)
०१७. युधिष्ठिरेण द्रौणेरेकस्य बहुमारणशक्तिप्रश्ने कृष्णेन रुद्रप्रसादादित्युक्त्वा रुद्रमहिमकथनम्॥ (26)