10.001
Core and Pancharatra: Frightened and in haste, Ashwatthama and others abandoned their vehicles and entered a dense forest, taking shelter under a banyan tree covered with thousands of branches. Seeing the owl kill sleeping crows, he decided to kill the sleeping Pandavas and Panchalas.
सञ्जय उवाच॥
ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः। उपास्तमयवेलायां शिबिराभ्याशमागताः ॥१०-१-१॥
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा। गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥१०-१-२॥
सेनानिवेशमभितो नातिदूरमवस्थिताः। निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ॥१०-१-३॥
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन्। श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ॥१०-१-४॥
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः। ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ॥१०-१-५॥
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः। राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ॥१०-१-६॥
धृतराष्ट्र उवाच॥
अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय। यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥१०-१-७॥
अवध्यः सर्वभूतानां वज्रसंहननो युवा। पाण्डवैः समरे पुत्रो निहतो मम सञ्जय ॥१०-१-८॥
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः। यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥१०-१-९॥
अद्रिसारमयं नूनं हृदयं मम सञ्जय। हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥१०-१-१०॥
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति। न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे ॥१०-१-११॥
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय। प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥१०-१-१२॥
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च सञ्जय। कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ॥१०-१-१३॥
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय। येन पुत्रशतं पूर्णमेकेन निहतं मम ॥१०-१-१४॥
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः। अकुर्वता वचस्तेन मम पुत्रेण सञ्जय ॥१०-१-१५॥
अधर्मेण हते तात पुत्रे दुर्योधने मम। कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ॥१०-१-१६॥
सञ्जय उवाच॥
गत्वा तु तावका राजन्नातिदूरमवस्थिताः। अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ॥१०-१-१७॥
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः। सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् ॥१०-१-१८॥
नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम्। नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥१०-१-१९॥
नानातोयसमाकीर्णं तडागैरुपशोभितम्। पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ॥१०-१-२०॥
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः। शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ॥१०-१-२१॥
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः। ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥१०-१-२२॥
तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः। उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ॥१०-१-२३॥
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे। सर्वस्य जगतो धात्री शर्वरी समपद्यत ॥१०-१-२४॥
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम्। नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ॥१०-१-२५॥
ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः। दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः ॥१०-१-२६॥
रात्रिञ्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः। क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥१०-१-२७॥
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः। कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥१०-१-२८॥
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः। तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥१०-१-२९॥
निद्रया च परीताङ्गा निषेदुर्धरणीतले। श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥१०-१-३०॥
ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ। सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ॥ तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ ॥१०-१-३१॥
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत। नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥१०-१-३२॥
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना। वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥१०-१-३३॥
वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम्। अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् ॥१०-१-३४॥
तत्र काकसहस्राणि तां निशां पर्यणामयन्। सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः ॥१०-१-३५॥
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः। सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् ॥१०-१-३६॥
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्। सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् ॥१०-१-३७॥
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः। न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत ॥१०-१-३८॥
संनिपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः। सुप्ताञ्जघान बहुत्वायसान्वायसान्तकः ॥१०-१-३९॥
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह। चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ॥१०-१-४०॥
क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः। तेषां शरीरावयवैः शरीरैश्च विशां पते ॥ न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत् ॥१०-१-४१॥
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत्। प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥१०-१-४२॥
तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि। तद्भावकृतसङ्कल्पो द्रौणिरेको व्यचिन्तयत् ॥१०-१-४३॥
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे। शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ॥१०-१-४४॥
नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः। बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ॥ राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ॥१०-१-४५॥
पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम्। न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ॥ छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् ॥१०-१-४६॥
तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत्। तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः ॥१०-१-४७॥
यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम्। कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥१०-१-४८॥
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे। सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥१०-१-४९॥
अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः। श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ॥१०-१-५०॥
परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः। प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम् ॥१०-१-५१॥
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्। भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥१०-१-५२॥
इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे। पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥१०-१-५३॥
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः। सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥१०-१-५४॥
नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः। स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् ॥१०-१-५५॥
हतो दुर्योधनो राजा एकवीरो महाबलः। यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥१०-१-५६॥
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः। पातितो भीमसेनेन एकादशचमूपतिः ॥१०-१-५७॥
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्। मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ॥१०-१-५८॥
विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च। धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥१०-१-५९॥
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः। अनिलेनेरितो घोरो दिशः पूरयतीव हि ॥१०-१-६०॥
अश्वानां हेषमाणानां गजानां चैव बृंहताम्। सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥१०-१-६१॥
दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम्। रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः ॥१०-१-६२॥
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्। वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे ॥१०-१-६३॥
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः। निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् ॥१०-१-६४॥
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः। यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे ॥१०-१-६५॥
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते। व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥१०-१-६६॥