Mahabharata - Sauptika Parva (महाभारत - सौप्तिकपर्वम्)
10.001
सञ्जय उवाच॥
ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः। उपास्तमयवेलायां शिबिराभ्याशमागताः ॥१०-१-१॥
विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा। गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ॥१०-१-२॥
सेनानिवेशमभितो नातिदूरमवस्थिताः। निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ॥१०-१-३॥
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन्। श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ॥१०-१-४॥
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः। ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः ॥१०-१-५॥
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः। राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः ॥१०-१-६॥
धृतराष्ट्र उवाच॥
अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय। यत्स नागायुतप्राणः पुत्रो मम निपातितः ॥१०-१-७॥
अवध्यः सर्वभूतानां वज्रसंहननो युवा। पाण्डवैः समरे पुत्रो निहतो मम सञ्जय ॥१०-१-८॥
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः। यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः ॥१०-१-९॥
अद्रिसारमयं नूनं हृदयं मम सञ्जय। हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा ॥१०-१-१०॥
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति। न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे ॥१०-१-११॥
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय। प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात् ॥१०-१-१२॥
आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च सञ्जय। कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ॥१०-१-१३॥
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय। येन पुत्रशतं पूर्णमेकेन निहतं मम ॥१०-१-१४॥
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः। अकुर्वता वचस्तेन मम पुत्रेण सञ्जय ॥१०-१-१५॥
अधर्मेण हते तात पुत्रे दुर्योधने मम। कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय ॥१०-१-१६॥
सञ्जय उवाच॥
गत्वा तु तावका राजन्नातिदूरमवस्थिताः। अपश्यन्त वनं घोरं नानाद्रुमलताकुलम् ॥१०-१-१७॥
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः। सूर्यास्तमयवेलायामासेदुः सुमहद्वनम् ॥१०-१-१८॥
नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम्। नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम् ॥१०-१-१९॥
नानातोयसमाकीर्णं तडागैरुपशोभितम्। पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम् ॥१०-१-२०॥
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः। शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः ॥१०-१-२१॥
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः। ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम् ॥१०-१-२२॥
तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः। उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो ॥१०-१-२३॥
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे। सर्वस्य जगतो धात्री शर्वरी समपद्यत ॥१०-१-२४॥
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम्। नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः ॥१०-१-२५॥
ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः। दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः ॥१०-१-२६॥
रात्रिञ्चराणां सत्त्वानां निनादोऽभूत्सुदारुणः। क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी ॥१०-१-२७॥
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः। कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम् ॥१०-१-२८॥
तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः। तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम् ॥१०-१-२९॥
निद्रया च परीताङ्गा निषेदुर्धरणीतले। श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः ॥१०-१-३०॥
ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ। सुखोचितावदुःखार्हौ निषण्णौ धरणीतले ॥ तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ ॥१०-१-३१॥
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत। नैव स्म स जगामाथ निद्रां सर्प इव श्वसन् ॥१०-१-३२॥
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना। वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम् ॥१०-१-३३॥
वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम्। अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम् ॥१०-१-३४॥
तत्र काकसहस्राणि तां निशां पर्यणामयन्। सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः ॥१०-१-३५॥
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः। सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम् ॥१०-१-३६॥
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्। सुदीर्घघोणानखरं सुपर्णमिव वेगिनम् ॥१०-१-३७॥
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः। न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत ॥१०-१-३८॥
संनिपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः। सुप्ताञ्जघान बहुत्वायसान्वायसान्तकः ॥१०-१-३९॥
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह। चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः ॥१०-१-४०॥
क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः। तेषां शरीरावयवैः शरीरैश्च विशां पते ॥ न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत् ॥१०-१-४१॥
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत्। प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः ॥१०-१-४२॥
तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि। तद्भावकृतसङ्कल्पो द्रौणिरेको व्यचिन्तयत् ॥१०-१-४३॥
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे। शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः ॥१०-१-४४॥
नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः। बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः ॥ राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया ॥१०-१-४५॥
पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम्। न्यायतो युध्यमानस्य प्राणत्यागो न संशयः ॥ छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान् ॥१०-१-४६॥
तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत्। तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः ॥१०-१-४७॥
यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम्। कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता ॥१०-१-४८॥
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे। सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः ॥१०-१-४९॥
अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः। श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः ॥१०-१-५०॥
परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः। प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम् ॥१०-१-५१॥
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्। भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत् ॥१०-१-५२॥
इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे। पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान् ॥१०-१-५३॥
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः। सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च ॥१०-१-५४॥
नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः। स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत् ॥१०-१-५५॥
हतो दुर्योधनो राजा एकवीरो महाबलः। यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह ॥१०-१-५६॥
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः। पातितो भीमसेनेन एकादशचमूपतिः ॥१०-१-५७॥
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्। मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता ॥१०-१-५८॥
विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च। धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन् ॥१०-१-५९॥
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः। अनिलेनेरितो घोरो दिशः पूरयतीव हि ॥१०-१-६०॥
अश्वानां हेषमाणानां गजानां चैव बृंहताम्। सिंहनादश्च शूराणां श्रूयते सुमहानयम् ॥१०-१-६१॥
दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम्। रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः ॥१०-१-६२॥
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्। वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे ॥१०-१-६३॥
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः। निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम् ॥१०-१-६४॥
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः। यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे ॥१०-१-६५॥
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते। व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम् ॥१०-१-६६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.