10.002
कृप उवाच॥
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो। ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ॥१०-२-१॥
आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः। दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥१०-२-२॥
न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम। न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥१०-२-३॥
ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः। प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥१०-२-४॥
पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम्। कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम् ॥१०-२-५॥
उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम्। व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः ॥१०-२-६॥
प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते। बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥१०-२-७॥
तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते। प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः ॥१०-२-८॥
ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ। विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि ॥१०-२-९॥
कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति। तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥१०-२-१०॥
उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम्। अफलं दृश्यते लोके सम्यगप्युपपादितम् ॥१०-२-११॥
तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः। उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥१०-२-१२॥
प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि। अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम् ॥१०-२-१३॥
चेष्टामकुर्वँल्लभते यदि किञ्चिद्यदृच्छया। यो वा न लभते कृत्वा दुर्दशौ तावुभावपि ॥१०-२-१४॥
शक्नोति जीवितुं दक्षो नालसः सुखमेधते। दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥१०-२-१५॥
यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम्। नास्य वाच्यं भवेत्किञ्चित्तत्त्वं चाप्यधिगच्छति ॥१०-२-१६॥
अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः। स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥१०-२-१७॥
एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा। स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः ॥१०-२-१८॥
हीनं पुरुषकारेण यदा दैवेन वा पुनः। कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ॥ हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥१०-२-१९॥
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते। दक्षो दाक्षिण्यसम्पन्नो न स मोघं विहन्यते ॥१०-२-२०॥
सम्यगीहा पुनरियं यो वृद्धानुपसेवते। आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥१०-२-२१॥
उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः। तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥१०-२-२२॥
वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत्। उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥१०-२-२३॥
रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः। अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥१०-२-२४॥
सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना। असमर्थ्य समारब्धो मूढत्वादविचिन्तितः ॥१०-२-२५॥
हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह। वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ॥१०-२-२६॥
पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति। तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः ॥१०-२-२७॥
अन्वावर्तामहि वयं यत्तु तं पापपूरुषम्। अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥१०-२-२८॥
अनेन तु ममाद्यापि व्यसनेनोपतापिता। बुद्धिश्चिन्तयतः किञ्चित्स्वं श्रेयो नावबुध्यते ॥१०-२-२९॥
मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः। ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥१०-२-३०॥
ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह। उपपृच्छामहे गत्वा विदुरं च महामतिम् ॥१०-२-३१॥
ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम्। तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥१०-२-३२॥
अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित्। कृते पुरुषकारे च येषां कार्यं न सिध्यति ॥ दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥१०-२-३३॥