10.003
सञ्जय उवाच॥
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्। अश्वत्थामा महाराज दुःखशोकसमन्वितः ॥१०-३-१॥
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा। क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ॥१०-३-२॥
पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना। तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया ॥१०-३-३॥
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्। सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ॥१०-३-४॥
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता। परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥१०-३-५॥
कारणान्तरयोगेन योगे येषां समा मतिः। तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् ॥१०-३-६॥
तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा। कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते ॥१०-३-७॥
अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः। चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते ॥१०-३-८॥
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि। भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ॥१०-३-९॥
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः। प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः ॥१०-३-१०॥
अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः। मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् ॥१०-३-११॥
व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम्। अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ॥१०-३-१२॥
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा। भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ॥१०-३-१३॥
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति। तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ॥१०-३-१४॥
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः। कर्तुमारभते प्रीतो मरणादिषु कर्मसु ॥१०-३-१५॥
सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः। चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ॥१०-३-१६॥
उपजाता व्यसनजा येयमद्य मतिर्मम। युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ॥१०-३-१७॥
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च। वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ॥१०-३-१८॥
ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम्। दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥१०-३-१९॥
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः। अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥१०-३-२०॥
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते। मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः ॥१०-३-२१॥
क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम्। प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् ॥१०-३-२२॥
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे। पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ॥१०-३-२३॥
सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम्। गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ॥१०-३-२४॥
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः। विमुक्तयुग्यकवचा हर्षेण च समन्विताः ॥ वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च ॥१०-३-२५॥
तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके। अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥१०-३-२६॥
तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः। सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥१०-३-२७॥
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान्। सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ॥ निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम ॥१०-३-२८॥
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे। पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव ॥१०-३-२९॥
अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च। अर्दयिष्यामि सङ्क्रुद्धो रणे पाण्डुसुतांस्तथा ॥१०-३-३०॥
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम्। प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ॥१०-३-३१॥
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि। गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् ॥१०-३-३२॥
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि। विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥१०-३-३३॥
अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि। खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ॥१०-३-३४॥
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके। कृतकृत्यः सुखी चैव भविष्यामि महामते ॥१०-३-३५॥