Mahabharata - Sauptika Parva (महाभारत - सौप्तिकपर्वम्)
10.004
कृप उवाच॥
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत। न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम् ॥१०-४-१॥
अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ। अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥१०-४-२॥
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः। परानभिमुखं यान्तं रथावास्थाय दंशितौ ॥१०-४-३॥
आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे। विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ॥१०-४-४॥
शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम्। चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ॥१०-४-५॥
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद। समेत्य समरे शत्रून्वधिष्यसि न संशयः ॥१०-४-६॥
न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम्। जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ॥१०-४-७॥
कृपेण सहितं यान्तं युक्तं च कृतवर्मणा। को द्रौणिं युधि संरब्धं योधयेदपि देवराट् ॥१०-४-८॥
ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः। प्रभातायां रजन्यां वै निहनिष्याम शात्रवान् ॥१०-४-९॥
तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः। सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः ॥१०-४-१०॥
ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान्। प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ॥ विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ॥१०-४-११॥
अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम। अनुयास्याव सहितौ धन्विनौ परतापिनौ ॥ रथिनं त्वरया यान्तं रथावास्थाय दंशितौ ॥१०-४-१२॥
स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे। ततः कर्तासि शत्रूणां युध्यतां कदनं महत् ॥१०-४-१३॥
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि। विहरस्व यथा शक्रः सूदयित्वा महासुरान् ॥१०-४-१४॥
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्। दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ॥१०-४-१५॥
मया त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा। न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ॥१०-४-१६॥
न चाहं समरे तात कृतवर्मा तथैव च। अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित् ॥१०-४-१७॥
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह। निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ॥१०-४-१८॥
सर्वोपायैः सहायास्ते प्रभाते वयमेव हि। सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ॥१०-४-१९॥
एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः। अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ॥१०-४-२०॥
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च। अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ॥१०-४-२१॥
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्। यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत् ॥१०-४-२२॥
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्। हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ॥१०-४-२३॥
यथा च निहतः पापैः पिता मम विशेषतः। प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ॥१०-४-२४॥
कथं हि मादृशो लोके मुहूर्तमपि जीवति। द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् ॥१०-४-२५॥
दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे। स मे पितृवधाद्वध्यः पाञ्चाला ये च सङ्गताः ॥१०-४-२६॥
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः। स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ॥१०-४-२७॥
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्। नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ॥१०-४-२८॥
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः। शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ॥ एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ॥१०-४-२९॥
वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान्। अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल ॥१०-४-३०॥
न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथञ्चन। न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत् ॥ इति मे निश्चिता बुद्धिरेषा साधुमता च मे ॥१०-४-३१॥
वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः। पाण्डवानां च विजयो हृदयं दहतीव मे ॥१०-४-३२॥
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके। ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥१०-४-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.