10.005
कृप उवाच॥
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः। नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥१०-५-१॥
तथैव तावन्मेधावी विनयं यो न शिक्षति। न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् ॥१०-५-२॥
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः। जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥१०-५-३॥
अनेयस्त्ववमानी यो दुरात्मा पापपूरुषः। दिष्टमुत्सृज्य कल्याणं करोति बहुपापकम् ॥१०-५-४॥
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्। निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ॥१०-५-५॥
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते। तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥१०-५-६॥
तथैव सुहृदं प्राज्ञं कुर्वाणं कर्म पापकम्। प्राज्ञाः सम्प्रतिषेधन्ते यथाशक्ति पुनः पुनः ॥१०-५-७॥
स कल्याणे मतिं कृत्वा नियम्यात्मानमात्मना। कुरु मे वचनं तात येन पश्चान्न तप्यसे ॥१०-५-८॥
न वधः पूज्यते लोके सुप्तानामिह धर्मतः। तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥१०-५-९॥
ये च ब्रूयुस्तवास्मीति ये च स्युः शरणागताः। विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥१०-५-१०॥
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो। विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥१०-५-११॥
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः। व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लवे ॥१०-५-१२॥
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः। न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥१०-५-१३॥
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ। प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥१०-५-१४॥
असम्भावितरूपं हि त्वयि कर्म विगर्हितम्। शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥१०-५-१५॥
अश्वत्थामोवाच॥
एवमेतद्यथात्थ त्वमनुशास्मीह मातुल। तैस्तु पूर्वमयं सेतुः शतधा विदलीकृतः ॥१०-५-१६॥
प्रत्यक्षं भूमिपालानां भवतां चापि संनिधौ। न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥१०-५-१७॥
कर्णश्च पतिते चक्रे रथस्य रथिनां वरः। उत्तमे व्यसने सन्नो हतो गाण्डीवधन्वना ॥१०-५-१८॥
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः। शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥१०-५-१९॥
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे। क्रोशतां भूमिपालानां युयुधानेन पातितः ॥१०-५-२०॥
दुर्योधनश्च भीमेन समेत्य गदया मृधे। पश्यतां भूमिपालानामधर्मेण निपातितः ॥१०-५-२१॥
एकाकी बहुभिस्तत्र परिवार्य महारथैः। अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ॥१०-५-२२॥
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः। वार्त्तिकानां कथयतां स मे मर्माणि कृन्तति ॥१०-५-२३॥
एवमधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः। तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥१०-५-२४॥
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके। कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ॥१०-५-२५॥
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्। तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥१०-५-२६॥
न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति। यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥१०-५-२७॥
सञ्जय उवाच॥
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्। एकान्ते योजयित्वाश्वान्प्रायादभिमुखः परान् ॥१०-५-२८॥
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ। किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥१०-५-२९॥
एकसार्थं प्रयातौ स्वस्त्वया सह नरर्षभ। समदुःखसुखौ चैव नावां शङ्कितुमर्हसि ॥१०-५-३०॥
अश्वत्थामा तु सङ्क्रुद्धः पितुर्वधमनुस्मरन्। ताभ्यां तथ्यं तदाचख्यौ यदस्यात्मचिकीर्षितम् ॥१०-५-३१॥
हत्वा शतसहस्राणि योधानां निशितैः शरैः। न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥१०-५-३२॥
तं तथैव हनिष्यामि न्यस्तवर्माणमद्य वै। पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ॥१०-५-३३॥
कथं च निहतः पापः पाञ्चालः पशुवन्मया। शस्त्राहवजितां लोकान्प्राप्नुयादिति मे मतिः ॥१०-५-३४॥
क्षिप्रं संनद्धकवचौ सखड्गावात्तकार्मुकौ। समास्थाय प्रतीक्षेतां रथवर्यौ परन्तपौ ॥१०-५-३५॥
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान्। तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥१०-५-३६॥
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः। हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥१०-५-३७॥
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो। द्वारदेशं तु सम्प्राप्य द्रौणिस्तस्थौ रथोत्तमे ॥१०-५-३८॥