Mahabharata - Sauptika Parva (महाभारत - सौप्तिकपर्वम्)
10.006
धृतराष्ट्र उवाच॥
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ। अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे ॥१०-६-१॥
सञ्जय उवाच॥
कृतवर्माणमामन्त्र्य कृपं च स महारथम्। द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥१०-६-२॥
तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्। सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ॥१०-६-३॥
वसानं चर्म वैयाघ्रं महारुधिरविस्रवम्। कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥१०-६-४॥
बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः। बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥१०-६-५॥
दंष्ट्राकरालवदनं व्यादितास्यं भयावहम्। नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥१०-६-६॥
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा। सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥१०-६-७॥
तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः। तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥१०-६-८॥
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः। प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥१०-६-९॥
तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम्। द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥१०-६-१०॥
द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत्। उदधेरिव वार्योघान्पावको वडवामुखः ॥१०-६-११॥
अश्वत्थामा तु सम्प्रेक्ष्य ताञ्शरौघान्निरर्थकान्। रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥१०-६-१२॥
सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत। युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥१०-६-१३॥
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम्। कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥१०-६-१४॥
ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा। स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥१०-६-१५॥
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्। ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥१०-६-१६॥
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः। अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥१०-६-१७॥
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः। अब्रवीदभिसन्तप्तः कृपवाक्यमनुस्मरन् ॥१०-६-१८॥
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः। स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ॥१०-६-१९॥
शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति। स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ॥१०-६-२०॥
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा। वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥१०-६-२१॥
मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत्। इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥१०-६-२२॥
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्। अमार्गेणैवमारभ्य घोरामापदमागतः ॥१०-६-२३॥
तां चापदं घोरतरां प्रवदन्ति मनीषिणः। यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥१०-६-२४॥
अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह। न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते ॥१०-६-२५॥
मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति। स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥१०-६-२६॥
प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः। यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते ॥१०-६-२७॥
तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम्। न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ॥१०-६-२८॥
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्। न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥१०-६-२९॥
ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः। तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते ॥१०-६-३०॥
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम्। नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ॥१०-६-३१॥
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम्। दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥१०-६-३२॥
कपर्दिनं प्रपद्याथ देवदेवमुमापतिम्। कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥१०-६-३३॥
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च। तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥१०-६-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.