10.007
सञ्जय उवाच॥
स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते। अवतीर्य रथोपस्थाद्दध्यौ सम्प्रयतः स्थितः ॥१०-७-१॥
द्रौणिरुवाच॥
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम्। गिरिशं वरदं देवं भवं भावनमव्ययम् ॥१०-७-२॥
शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम्। विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥१०-७-३॥
श्मशानवासिनं दृप्तं महागणपतिं प्रभुम्। खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥१०-७-४॥
मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा। सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ॥१०-७-५॥
स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम्। विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् ॥१०-७-६॥
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च। व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् ॥१०-७-७॥
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम्। गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् ॥१०-७-८॥
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम्। तनुवाससमत्युग्रमुमाभूषणतत्परम् ॥१०-७-९॥
परं परेभ्यः परमं परं यस्मान्न विद्यते। इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् ॥१०-७-१०॥
हिरण्यकवचं देवं चन्द्रमौलिविभूषितम्। प्रपद्ये शरणं देवं परमेण समाधिना ॥१०-७-११॥
इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम्। सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ॥१०-७-१२॥
इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः। पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः ॥१०-७-१३॥
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत। द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन् ॥१०-७-१४॥
दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः। द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ॥१०-७-१५॥
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः। ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ॥१०-७-१६॥
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च। महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ॥१०-७-१७॥
दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत। कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ॥१०-७-१८॥
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च। हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ॥१०-७-१९॥
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च। पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ॥१०-७-२०॥
निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत। तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ॥१०-७-२१॥
प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च। मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥१०-७-२२॥
शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च। शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ॥१०-७-२३॥
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः। चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ॥१०-७-२४॥
मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः। उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलङ्कृताः ॥१०-७-२५॥
पद्मोत्पलापीडधरास्तथा कुमुदधारिणः। माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ॥१०-७-२६॥
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः। भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत ॥१०-७-२७॥
पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः। सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ॥१०-७-२८॥
महापाशोद्यतकरास्तथा लगुडपाणयः। स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः ॥ महासर्पाङ्गदधराश्चित्राभरणधारिणः ॥१०-७-२९॥
रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः। नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ॥१०-७-३०॥
भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान्। अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ॥१०-७-३१॥
गायमानास्तथैवान्ये नृत्यमानास्तथापरे। लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः ॥१०-७-३२॥
धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः। मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ॥१०-७-३३॥
सुभीमा घोररूपाश्च शूलपट्टिशपाणयः। नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ॥१०-७-३४॥
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा। हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥१०-७-३५॥
पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः। चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ॥१०-७-३६॥
अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः। विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः ॥१०-७-३७॥
महार्हनानामुकुटा मुण्डाश्च जटिलाः परे। सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले ॥१०-७-३८॥
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम्। ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः ॥१०-७-३९॥
कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः। नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥१०-७-४०॥
प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम्। येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ॥१०-७-४१॥
मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः। मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ॥१०-७-४२॥
पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा। चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा ॥१०-७-४३॥
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च। ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ॥१०-७-४४॥
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः। सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः ॥१०-७-४५॥
नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः। संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ॥१०-७-४६॥
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः। विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ॥१०-७-४७॥
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः। भीमोग्रपरिघालातशूलपट्टिशपाणयः ॥ घोररूपाः समाजग्मुर्भूतसङ्घाः समन्ततः ॥१०-७-४८॥
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात्। तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः ॥१०-७-४९॥
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान्। स्वयमेवात्मनात्मानमुपहारमुपाहरत् ॥१०-७-५०॥
धनूंषि समिधस्तत्र पवित्राणि शिताः शराः। हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ॥१०-७-५१॥
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान्। उपहारं महामन्युरथात्मानमुपाहरत् ॥१०-७-५२॥
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम्। अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ॥१०-७-५३॥
इममात्मानमद्याहं जातमाङ्गिरसे कुले। अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ॥१०-७-५४॥
भवद्भक्त्या महादेव परमेण समाधिना। अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः ॥१०-७-५५॥
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै। गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति ॥१०-७-५६॥
सर्वभूताशय विभो हविर्भूतमुपस्थितम्। प्रतिगृहाण मां देव यद्यशक्याः परे मया ॥१०-७-५७॥
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम्। सन्त्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् ॥१०-७-५८॥
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम्। अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ॥१०-७-५९॥
सत्यशौचार्जवत्यागैस्तपसा नियमेन च। क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा ॥१०-७-६०॥
यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा। तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥१०-७-६१॥
कुर्वता तस्य संमानं त्वां च जिज्ञासता मया। पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः ॥१०-७-६२॥
कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया। अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ॥१०-७-६३॥
एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम्। आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् ॥१०-७-६४॥
अथाविष्टो भगवता भूयो जज्वाल तेजसा। वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ॥१०-७-६५॥
तमदृश्यानि भूतानि रक्षांसि च समाद्रवन्। अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् ॥१०-७-६६॥