Mahabharata - Sauptika Parva (महाभारत - सौप्तिकपर्वम्)
10.008
Pancharatra-Ext and Core: Ashwatthama killed all those inside the camp, while those who escaped were butchered by Kripa and Kritaverma standing at the gate. Joyful, they wanted to convey the good news to Duryodhana.
धृतराष्ट्र उवाच॥
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे। कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ॥१०-८-१॥
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ। असह्यमिति वा मत्वा न निवृत्तौ महारथौ ॥१०-८-२॥
कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान्। दुर्योधनस्य पदवीं गतौ परमिकां रणे ॥१०-८-३॥
पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ। कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय ॥१०-८-४॥
सञ्जय उवाच॥
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि। कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ॥१०-८-५॥
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ। प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥१०-८-६॥
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने। किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥१०-८-७॥
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्। यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ॥१०-८-८॥
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्। अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥१०-८-९॥
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह। धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥१०-८-१०॥
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे। प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥१०-८-११॥
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत। पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥१०-८-१२॥
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते। माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥१०-८-१३॥
तं शयानं महात्मानं विस्रब्धमकुतोभयम्। प्राबोधयत पादेन शयनस्थं महीपते ॥१०-८-१४॥
स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः। अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ॥१०-८-१५॥
तमुत्पतन्तं शयनादश्वत्थामा महाबलः। केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ॥१०-८-१६॥
स बलात्तेन निष्पिष्टः साध्वसेन च भारत। निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ॥१०-८-१७॥
तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः। नदन्तं विस्फुरन्तं च पशुमारममारयत् ॥१०-८-१८॥
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्। आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ॥ त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ॥१०-८-१९॥
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत्। आचार्यघातिनां लोका न सन्ति कुलपांसन ॥ तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥१०-८-२०॥
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्। मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ॥१०-८-२१॥
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि। अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥१०-८-२२॥
ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम्। भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥१०-८-२३॥
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्। अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ॥१०-८-२४॥
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः। रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥१०-८-२५॥
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे। सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ॥१०-८-२६॥
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः। व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥१०-८-२७॥
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः। क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ॥१०-८-२८॥
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम्। अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥१०-८-२९॥
राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम्। हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ॥१०-८-३०॥
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन्। स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥१०-८-३१॥
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्। अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥१०-८-३२॥
तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा। तथैव मारयामास विनर्दन्तमरिंदमम् ॥१०-८-३३॥
युधामन्युस्तु सम्प्राप्तो मत्त्वा तं रक्षसा हतम्। गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥१०-८-३४॥
तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत्। विस्फुरन्तं च पशुवत्तथैवैनममारयत् ॥१०-८-३५॥
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत्। संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ॥ स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥१०-८-३६॥
ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान्। भागशो विचरन्मार्गानसियुद्धविशारदः ॥१०-८-३७॥
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान्। श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत् ॥१०-८-३८॥
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना। रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥१०-८-३९॥
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च। आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् ॥१०-८-४०॥
तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः। अमानुष इवाकारो बभौ परमभीषणः ॥१०-८-४१॥
ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः। निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ॥१०-८-४२॥
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः। राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥१०-८-४३॥
स घोररूपो व्यचरत्कालवच्छिबिरे ततः। अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥१०-८-४४॥
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः। धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ॥ अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥१०-८-४५॥
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः। शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ॥१०-८-४६॥
भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः। ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ॥१०-८-४७॥
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन्। अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥१०-८-४८॥
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे। खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् ॥ द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली ॥१०-८-४९॥
ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे। कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ॥१०-८-५०॥
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्। पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ॥१०-८-५१॥
सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः। पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् ॥१०-८-५२॥
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्। दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ॥१०-८-५३॥
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः। स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ॥१०-८-५४॥
श्रुतकर्मा तु परिघं गृहीत्वा समताडयत्। अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् ॥१०-८-५५॥
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना। स हतो न्यपतद्भूमौ विमूढो विकृताननः ॥१०-८-५६॥
तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः। अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ॥१०-८-५७॥
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः। सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् ॥१०-८-५८॥
ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः। अहनत्सर्वतो वीरं नानाप्रहरणैर्बली ॥ शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् ॥१०-८-५९॥
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः। शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना ॥१०-८-६०॥
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः। प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ॥ यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् ॥१०-८-६१॥
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि। चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः ॥१०-८-६२॥
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च। न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ॥१०-८-६३॥
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्। रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् ॥१०-८-६४॥
ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम्। नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् ॥ हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् ॥१०-८-६५॥
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष। ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ॥१०-८-६६॥
यतः प्रवृत्तः सङ्ग्रामः कुरुपाण्डवसेनयोः। ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च ॥१०-८-६७॥
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत्। त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ॥१०-८-६८॥
तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम्। इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ॥१०-८-६९॥
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः। शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ॥१०-८-७०॥
सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित्। कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः ॥१०-८-७१॥
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः। गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो ॥१०-८-७२॥
क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम्। एवं तेषां तदा द्रौणिरन्तकः समपद्यत ॥१०-८-७३॥
अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान्। प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ॥१०-८-७४॥
ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः। निद्रान्धा नष्टसञ्ज्ञाश्च तत्र तत्र निलिल्यिरे ॥१०-८-७५॥
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः। विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् ॥१०-८-७६॥
ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम्। धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् ॥१०-८-७७॥
पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान्। शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् ॥१०-८-७८॥
तथैव स्यन्दनाग्रेण प्रमथन्स विधावति। शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ॥१०-८-७९॥
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा। तेन चाकाशवर्णेन तदाचरत सोऽसिना ॥१०-८-८०॥
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः। व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः ॥१०-८-८१॥
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः। निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ॥१०-८-८२॥
विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन्। न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च ॥१०-८-८३॥
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम्। उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् ॥ पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ॥१०-८-८४॥
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः। समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ॥१०-८-८५॥
तत्र केचिन्नरा भीता व्यलीयन्त महीतले। तथैव तान्निपतितानपिंषन्गजवाजिनः ॥१०-८-८६॥
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ। तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम ॥१०-८-८७॥
स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः। अपूरयद्दिशः सर्वा दिवं चापि महास्वनः ॥१०-८-८८॥
तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः। मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् ॥१०-८-८९॥
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः। अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ॥१०-८-९०॥
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः। नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ॥१०-८-९१॥
गजा गजानतिक्रम्य निर्मनुष्या हया हयान्। अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत ॥१०-८-९२॥
ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम्। न्यपातयन्त च परान्पातयित्वा तथापिषन् ॥१०-८-९३॥
विचेतसः सनिद्राश्च तमसा चावृता नराः। जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः ॥१०-८-९४॥
त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः। प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ॥१०-८-९५॥
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो। क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ॥१०-८-९६॥
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्। गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ॥१०-८-९७॥
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे। तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् ॥१०-८-९८॥
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः। शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ॥१०-८-९९॥
तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः। कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ॥१०-८-१००॥
विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन्। वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् ॥१०-८-१०१॥
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः। कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ॥१०-८-१०२॥
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम्। त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ॥१०-८-१०३॥
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः। अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ॥१०-८-१०४॥
कांश्चिदापततो वीरानपरांश्च प्रधावतः। व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् ॥१०-८-१०५॥
कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान्। अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् ॥१०-८-१०६॥
विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः। पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ॥१०-८-१०७॥
मानुषाणां सहस्रेषु हतेषु पतितेषु च। उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ॥१०-८-१०८॥
सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च। हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ॥१०-८-१०९॥
पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान्। समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ॥१०-८-११०॥
मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः। अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ॥१०-८-१११॥
एवं विचरतस्तस्य निघ्नतः सुबहून्नरान्। तमसा रजनी घोरा बभौ दारुणदर्शना ॥१०-८-११२॥
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः। बहुना च गजाश्वेन भूरभूद्भीमदर्शना ॥१०-८-११३॥
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे। क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि ॥१०-८-११४॥
मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः। केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ॥१०-८-११५॥
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः। असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम् ॥१०-८-११६॥
न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः। शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः ॥१०-८-११७॥
ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः। न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ॥ धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः ॥१०-८-११८॥
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः। इति लालप्यमानाः स्म शेरते बहवो जनाः ॥१०-८-११९॥
स्तनतां च मनुष्याणामपरेषां च कूजताम्। ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ॥१०-८-१२०॥
शोणितव्यतिषिक्तायां वसुधायां च भूमिप। तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ॥१०-८-१२१॥
संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः। न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा ॥१०-८-१२२॥
अन्योन्यं सम्परिष्वज्य शयानान्द्रवतोऽपरान्। संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ॥१०-८-१२३॥
दह्यमाना हुताशेन वध्यमानाश्च तेन ते। परस्परं तदा योधा अनयन्यमसादनम् ॥१०-८-१२४॥
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्। गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ॥१०-८-१२५॥
निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी। आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ॥१०-८-१२६॥
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः। खादन्तो नरमांसानि पिबन्तः शोणितानि च ॥१०-८-१२७॥
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः। जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः ॥१०-८-१२८॥
पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः। घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः ॥१०-८-१२९॥
सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः। विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ॥१०-८-१३०॥
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे। इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ॥१०-८-१३१॥
मेदोमज्जास्थिरक्तानां वसानां च भृशासिताः। परमांसानि खादन्तः क्रव्यादा मांसजीविनः ॥१०-८-१३२॥
वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः। नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः ॥१०-८-१३३॥
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च। रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ॥१०-८-१३४॥
मुदितानां वितृप्तानां तस्मिन्महति वैशसे। समेतानि बहून्यासन्भूतानि च जनाधिप ॥१०-८-१३५॥
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः। नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ॥ पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ॥१०-८-१३६॥
स निःशेषानरीन्कृत्वा विरराज जनक्षये। युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥१०-८-१३७॥
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो। दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः ॥१०-८-१३८॥
यथैव संसुप्तजने शिबिरे प्राविशन्निशि। तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः ॥१०-८-१३९॥
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान्। आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ॥१०-८-१४०॥
तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा। पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ॥ प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् ॥१०-८-१४१॥
एवंविधा हि सा रात्रिः सोमकानां जनक्षये। प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ॥१०-८-१४२॥
असंशयं हि कालस्य पर्यायो दुरतिक्रमः। तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् ॥१०-८-१४३॥
धृतराष्ट्र उवाच॥
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः। नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ॥१०-८-१४४॥
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ। द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि ॥१०-८-१४५॥
सञ्जय उवाच॥
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन। असांनिध्याद्धि पार्थानां केशवस्य च धीमतः ॥१०-८-१४६॥
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम्। न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ॥१०-८-१४७॥
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो। ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ॥ दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ॥१०-८-१४८॥
पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः। इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् ॥१०-८-१४९॥
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः। सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ॥१०-८-१५०॥
इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम्। यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ॥१०-८-१५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.