Mahabharata - Sauptika Parva (महाभारत - सौप्तिकपर्वम्)
10.008
धृतराष्ट्र उवाच॥
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे। कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ॥१०-८-१॥
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ। असह्यमिति वा मत्वा न निवृत्तौ महारथौ ॥१०-८-२॥
कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान्। दुर्योधनस्य पदवीं गतौ परमिकां रणे ॥१०-८-३॥
पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ। कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व सञ्जय ॥१०-८-४॥
सञ्जय उवाच॥
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि। कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ॥१०-८-५॥
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ। प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥१०-८-६॥
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने। किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥१०-८-७॥
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्। यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ॥१०-८-८॥
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्। अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥१०-८-९॥
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह। धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥१०-८-१०॥
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे। प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥१०-८-११॥
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत। पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥१०-८-१२॥
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते। माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥१०-८-१३॥
तं शयानं महात्मानं विस्रब्धमकुतोभयम्। प्राबोधयत पादेन शयनस्थं महीपते ॥१०-८-१४॥
स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः। अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ॥१०-८-१५॥
तमुत्पतन्तं शयनादश्वत्थामा महाबलः। केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ॥१०-८-१६॥
स बलात्तेन निष्पिष्टः साध्वसेन च भारत। निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ॥१०-८-१७॥
तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः। नदन्तं विस्फुरन्तं च पशुमारममारयत् ॥१०-८-१८॥
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्। आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ॥ त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ॥१०-८-१९॥
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत्। आचार्यघातिनां लोका न सन्ति कुलपांसन ॥ तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥१०-८-२०॥
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्। मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ॥१०-८-२१॥
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि। अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥१०-८-२२॥
ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम्। भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥१०-८-२३॥
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्। अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ॥१०-८-२४॥
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः। रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥१०-८-२५॥
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे। सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ॥१०-८-२६॥
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः। व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥१०-८-२७॥
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः। क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ॥१०-८-२८॥
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम्। अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥१०-८-२९॥
राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम्। हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ॥१०-८-३०॥
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन्। स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥१०-८-३१॥
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्। अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥१०-८-३२॥
तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा। तथैव मारयामास विनर्दन्तमरिंदमम् ॥१०-८-३३॥
युधामन्युस्तु सम्प्राप्तो मत्त्वा तं रक्षसा हतम्। गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥१०-८-३४॥
तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत्। विस्फुरन्तं च पशुवत्तथैवैनममारयत् ॥१०-८-३५॥
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत्। संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ॥ स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥१०-८-३६॥
ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान्। भागशो विचरन्मार्गानसियुद्धविशारदः ॥१०-८-३७॥
तथैव गुल्मे सम्प्रेक्ष्य शयानान्मध्यगौल्मिकान्। श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत् ॥१०-८-३८॥
योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना। रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः ॥१०-८-३९॥
विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च। आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत् ॥१०-८-४०॥
तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः। अमानुष इवाकारो बभौ परमभीषणः ॥१०-८-४१॥
ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः। निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ॥१०-८-४२॥
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः। राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥१०-८-४३॥
स घोररूपो व्यचरत्कालवच्छिबिरे ततः। अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥१०-८-४४॥
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः। धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ॥ अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥१०-८-४५॥
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः। शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन् ॥१०-८-४६॥
भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः। ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ॥१०-८-४७॥
ततः परमसङ्क्रुद्धः पितुर्वधमनुस्मरन्। अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥१०-८-४८॥
सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे। खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम् ॥ द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली ॥१०-८-४९॥
ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे। कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि ॥१०-८-५०॥
प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्। पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत् ॥१०-८-५१॥
सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः। पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत् ॥१०-८-५२॥
नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्। दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत् ॥१०-८-५३॥
अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः। स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः ॥१०-८-५४॥
श्रुतकर्मा तु परिघं गृहीत्वा समताडयत्। अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम् ॥१०-८-५५॥
स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना। स हतो न्यपतद्भूमौ विमूढो विकृताननः ॥१०-८-५६॥
तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः। अश्वत्थामानमासाद्य शरवर्षैरवाकिरत् ॥१०-८-५७॥
तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः। सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत् ॥१०-८-५८॥
ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः। अहनत्सर्वतो वीरं नानाप्रहरणैर्बली ॥ शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत् ॥१०-८-५९॥
स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः। शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना ॥१०-८-६०॥
शिखण्डिनं ततो हत्वा क्रोधाविष्टः परन्तपः। प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान् ॥ यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत् ॥१०-८-६१॥
द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि। चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः ॥१०-८-६२॥
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च। न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः ॥१०-८-६३॥
कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्। रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम् ॥१०-८-६४॥
ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम्। नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम् ॥ हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान् ॥१०-८-६५॥
स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष। ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा ॥१०-८-६६॥
यतः प्रवृत्तः सङ्ग्रामः कुरुपाण्डवसेनयोः। ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च ॥१०-८-६७॥
तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत्। त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान् ॥१०-८-६८॥
तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम्। इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः ॥१०-८-६९॥
ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः। शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः ॥१०-८-७०॥
सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित्। कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः ॥१०-८-७१॥
अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः। गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो ॥१०-८-७२॥
क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम्। एवं तेषां तदा द्रौणिरन्तकः समपद्यत ॥१०-८-७३॥
अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान्। प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः ॥१०-८-७४॥
ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः। निद्रान्धा नष्टसञ्ज्ञाश्च तत्र तत्र निलिल्यिरे ॥१०-८-७५॥
ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः। विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम् ॥१०-८-७६॥
ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम्। धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम् ॥१०-८-७७॥
पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान्। शूरान्सम्पततश्चान्यान्कालरात्र्यै न्यवेदयत् ॥१०-८-७८॥
तथैव स्यन्दनाग्रेण प्रमथन्स विधावति। शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः ॥१०-८-७९॥
पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा। तेन चाकाशवर्णेन तदाचरत सोऽसिना ॥१०-८-८०॥
तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः। व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः ॥१०-८-८१॥
उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः। निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः ॥१०-८-८२॥
विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन्। न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च ॥१०-८-८३॥
विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम्। उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन् ॥ पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः ॥१०-८-८४॥
बन्धनानि च राजेन्द्र सञ्छिद्य तुरगा द्विपाः। समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम् ॥१०-८-८५॥
तत्र केचिन्नरा भीता व्यलीयन्त महीतले। तथैव तान्निपतितानपिंषन्गजवाजिनः ॥१०-८-८६॥
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ। तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम ॥१०-८-८७॥
स शब्दः प्रेरितो राजन्भूतसङ्घैर्मुदा युतैः। अपूरयद्दिशः सर्वा दिवं चापि महास्वनः ॥१०-८-८८॥
तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः। मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् ॥१०-८-८९॥
तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः। अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ॥१०-८-९०॥
तस्मिंस्तमसि सञ्जाते प्रमूढाः सर्वतो जनाः। नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ॥१०-८-९१॥
गजा गजानतिक्रम्य निर्मनुष्या हया हयान्। अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत ॥१०-८-९२॥
ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम्। न्यपातयन्त च परान्पातयित्वा तथापिषन् ॥१०-८-९३॥
विचेतसः सनिद्राश्च तमसा चावृता नराः। जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः ॥१०-८-९४॥
त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः। प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ॥१०-८-९५॥
विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो। क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ॥१०-८-९६॥
पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्। गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ॥१०-८-९७॥
हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे। तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् ॥१०-८-९८॥
तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः। शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ॥१०-८-९९॥
तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः। कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः ॥१०-८-१००॥
विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन्। वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम् ॥१०-८-१०१॥
नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः। कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः ॥१०-८-१०२॥
भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम्। त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम् ॥१०-८-१०३॥
ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः। अश्वत्थामा महाराज व्यचरत्कृतहस्तवत् ॥१०-८-१०४॥
कांश्चिदापततो वीरानपरांश्च प्रधावतः। व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान् ॥१०-८-१०५॥
कांश्चिद्योधान्स खड्गेन मध्ये सञ्छिद्य वीर्यवान्। अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत् ॥१०-८-१०६॥
विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः। पतितैरभवत्कीर्णा मेदिनी भरतर्षभ ॥१०-८-१०७॥
मानुषाणां सहस्रेषु हतेषु पतितेषु च। उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन् ॥१०-८-१०८॥
सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च। हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत ॥१०-८-१०९॥
पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान्। समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान् ॥१०-८-११०॥
मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः। अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः ॥१०-८-१११॥
एवं विचरतस्तस्य निघ्नतः सुबहून्नरान्। तमसा रजनी घोरा बभौ दारुणदर्शना ॥१०-८-११२॥
किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः। बहुना च गजाश्वेन भूरभूद्भीमदर्शना ॥१०-८-११३॥
यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे। क्रुद्धेन द्रोणपुत्रेण सञ्छिन्नाः प्रापतन्भुवि ॥१०-८-११४॥
मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः। केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे ॥१०-८-११५॥
यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः। असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम् ॥१०-८-११६॥
न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः। शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः ॥१०-८-११७॥
ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः। न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम् ॥ धावन्तं मुक्तकेशं वा हन्ति पार्थो धनञ्जयः ॥१०-८-११८॥
तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः। इति लालप्यमानाः स्म शेरते बहवो जनाः ॥१०-८-११९॥
स्तनतां च मनुष्याणामपरेषां च कूजताम्। ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान् ॥१०-८-१२०॥
शोणितव्यतिषिक्तायां वसुधायां च भूमिप। तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत ॥१०-८-१२१॥
संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः। न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा ॥१०-८-१२२॥
अन्योन्यं सम्परिष्वज्य शयानान्द्रवतोऽपरान्। संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत् ॥१०-८-१२३॥
दह्यमाना हुताशेन वध्यमानाश्च तेन ते। परस्परं तदा योधा अनयन्यमसादनम् ॥१०-८-१२४॥
तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्। गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम् ॥१०-८-१२५॥
निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी। आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम् ॥१०-८-१२६॥
तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः। खादन्तो नरमांसानि पिबन्तः शोणितानि च ॥१०-८-१२७॥
करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः। जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः ॥१०-८-१२८॥
पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः। घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः ॥१०-८-१२९॥
सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः। विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम् ॥१०-८-१३०॥
पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे। इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन् ॥१०-८-१३१॥
मेदोमज्जास्थिरक्तानां वसानां च भृशासिताः। परमांसानि खादन्तः क्रव्यादा मांसजीविनः ॥१०-८-१३२॥
वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः। नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः ॥१०-८-१३३॥
अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च। रक्षसां घोररूपाणां महतां क्रूरकर्मणाम् ॥१०-८-१३४॥
मुदितानां वितृप्तानां तस्मिन्महति वैशसे। समेतानि बहून्यासन्भूतानि च जनाधिप ॥१०-८-१३५॥
प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः। नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः ॥ पाणिना सह संश्लिष्ट एकीभूत इव प्रभो ॥१०-८-१३६॥
स निःशेषानरीन्कृत्वा विरराज जनक्षये। युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥१०-८-१३७॥
यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो। दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः ॥१०-८-१३८॥
यथैव संसुप्तजने शिबिरे प्राविशन्निशि। तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः ॥१०-८-१३९॥
निष्क्रम्य शिबिरात्तस्मात्ताभ्यां सङ्गम्य वीर्यवान्। आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो ॥१०-८-१४०॥
तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा। पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः ॥ प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान् ॥१०-८-१४१॥
एवंविधा हि सा रात्रिः सोमकानां जनक्षये। प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा ॥१०-८-१४२॥
असंशयं हि कालस्य पर्यायो दुरतिक्रमः। तादृशा निहता यत्र कृत्वास्माकं जनक्षयम् ॥१०-८-१४३॥
धृतराष्ट्र उवाच॥
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः। नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः ॥१०-८-१४४॥
अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ। द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि ॥१०-८-१४५॥
सञ्जय उवाच॥
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन। असांनिध्याद्धि पार्थानां केशवस्य च धीमतः ॥१०-८-१४६॥
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम्। न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः ॥१०-८-१४७॥
एतदीदृशकं वृत्तं राजन्सुप्तजने विभो। ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम् ॥ दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः ॥१०-८-१४८॥
पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः। इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम् ॥१०-८-१४९॥
पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः। सोमका मत्स्यशेषाश्च सर्वे विनिहता मया ॥१०-८-१५०॥
इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम्। यदि जीवति नो राजा तस्मै शंसामहे प्रियम् ॥१०-८-१५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.