10.009
सञ्जय उवाच॥
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः। अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥१०-९-१॥
गत्वा चैनमपश्यंस्ते किञ्चित्प्राणं नराधिपम्। ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥१०-९-२॥
तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्। वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥१०-९-३॥
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः। शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥१०-९-४॥
निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्सञ्चिखादिषून्। विवेष्टमानं मह्यां च सुभृशं गाढवेदनम् ॥१०-९-५॥
तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम्। हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन् ॥ अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥१०-९-६॥
तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः। शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः ॥१०-९-७॥
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्। अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ॥१०-९-८॥
ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह। रणे राज्ञः शयानस्य कृपणं पर्यदेवयन् ॥१०-९-९॥
कृप उवाच॥
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः। एकादशचमूभर्ता शेते दुर्योधनो हतः ॥१०-९-१०॥
पश्य चामीकराभस्य चामीकरविभूषिताम्। गदां गदाप्रियस्येमां समीपे पतितां भुवि ॥१०-९-११॥
इयमेनं गदा शूरं न जहाति रणे रणे। स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥१०-९-१२॥
पश्येमां सह वीरेण जाम्बूनदविभूषिताम्। शयानां शयने धर्मे भार्यां प्रीतिमतीमिव ॥१०-९-१३॥
यो वै मूर्धावसिक्तानामग्रे यातः परन्तपः। स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ॥१०-९-१४॥
येनाजौ निहता भूमावशेरत पुरा द्विषः। स भूमौ निहतः शेते कुरुराजः परैरयम् ॥१०-९-१५॥
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः। स वीरशयने शेते क्रव्याद्भिः परिवारितः ॥१०-९-१६॥
उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम्। धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् ॥१०-९-१७॥
सञ्जय उवाच॥
तं शयानं नृपश्रेष्ठं ततो भरतसत्तम। अश्वत्थामा समालोक्य करुणं पर्यदेवयत् ॥१०-९-१८॥
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्। धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य ह ॥१०-९-१९॥
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ। बलिनः कृतिनो नित्यं स च पापात्मवान्नृप ॥१०-९-२०॥
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः। पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे ॥१०-९-२१॥
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः। निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ॥१०-९-२२॥
धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे। गदया भीमसेनेन निर्भिन्ने सक्थिनी तव ॥१०-९-२३॥
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः। यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् ॥१०-९-२४॥
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्। यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥१०-९-२५॥
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः। दुर्योधनसमो नास्ति गदया इति वीर्यवान् ॥१०-९-२६॥
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत। सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥१०-९-२७॥
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः। हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥१०-९-२८॥
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ। हतपुत्रां तु शोचामि गान्धारीं पितरं च ते ॥ भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ॥१०-९-२९॥
धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्। धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् ॥१०-९-३०॥
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान्। कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥१०-९-३१॥
धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः। प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥१०-९-३२॥
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा। प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते ॥१०-९-३३॥
धिगस्तु कृतवर्माणं मां कृपं च महारथम्। ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥१०-९-३४॥
दातारं सर्वकामानां रक्षितारं प्रजाहितम्। यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् ॥१०-९-३५॥
कृपस्य तव वीर्येण मम चैव पितुश्च मे। सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥१०-९-३६॥
भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः। अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ॥१०-९-३७॥
कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम्। यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ॥१०-९-३८॥
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्। यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् ॥१०-९-३९॥
त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते। किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै ॥१०-९-४०॥
दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम्। हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् ॥१०-९-४१॥
गत्वैतांस्तु महाराज समेत्य त्वं महारथान्। यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम ॥१०-९-४२॥
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्। हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप ॥१०-९-४३॥
परिष्वजेथा राजानं बाह्लिकं सुमहारथम्। सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥१०-९-४४॥
तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान्। अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम् ॥१०-९-४५॥
इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम्। अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत् ॥१०-९-४६॥
दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु। सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् ॥१०-९-४७॥
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः। अहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥१०-९-४८॥
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः। पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥१०-९-४९॥
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः। सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥१०-९-५०॥
मया च पापकर्मासौ धृष्टद्युम्नो महीपते। प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥१०-९-५१॥
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्। प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥१०-९-५२॥
न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता। यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ॥१०-९-५३॥
स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना। तेन मन्ये मघवता सममात्मानमद्य वै ॥१०-९-५४॥
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः। इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः ॥ प्राणानुदसृजद्वीरः सुहृदां शोकमादधत् ॥१०-९-५५॥
तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम्। पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥१०-९-५६॥
इत्येवं तव पुत्रस्य निशम्य करुणां गिरम्। प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति ॥१०-९-५७॥
तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ। ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥१०-९-५८॥
वैशम्पायन उवाच॥
इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा। निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥१०-९-५९॥