11.018
Pancharatra and Core: Gandhari continues her lamentation of Duḥśāsana.
गान्धार्युवाच॥
पश्य माधव पुत्रान्मे शतसङ्ख्याञ्जितक्लमान्। गदया भीमसेनेन भूयिष्ठं निहतान्रणे ॥११-१८-१॥
इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः। हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः ॥११-१८-२॥
प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः। आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुन्धराम् ॥११-१८-३॥
गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा। शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत ॥११-१८-४॥
एषान्या त्वनवद्याङ्गी करसंमितमध्यमा। घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता ॥११-१८-५॥
दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम्। राजपुत्रीं महाबाहो मनो न व्युपशाम्यति ॥११-१८-६॥
भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि। दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् ॥११-१८-७॥
मध्यमानां तु नारीणां वृद्धानां चापराजित। आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु ॥११-१८-८॥
रथनीडानि देहांश्च हतानां गजवाजिनाम्। आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल ॥११-१८-९॥
अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम्। स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥११-१८-१०॥
पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ। एताभिरनवद्याभिर्मया चैवाल्पमेधया ॥११-१८-११॥
तदिदं धर्मराजेन यातितं नो जनार्दन। न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ॥११-१८-१२॥
प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः। कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः ॥११-१८-१३॥
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः। सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥११-१८-१४॥
फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम्। अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् ॥११-१८-१५॥
ईर्षूणां मम पुत्राणां वासुदेवावरोधनम्। मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः ॥११-१८-१६॥
शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान्। रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ॥११-१८-१७॥
शीर्षत्राणानि चैतानि पुत्राणां मे महीतले। पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ॥११-१८-१८॥
एष दुःशासनः शेते शूरेणामित्रघातिना। पीतशोणितसर्वाङ्गो भीमसेनेन पातितः ॥११-१८-१९॥
गदया वीरघातिन्या पश्य माधव मे सुतम्। द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च ॥११-१८-२०॥
उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता। प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ॥११-१८-२१॥
सहैव सहदेवेन नकुलेनार्जुनेन च। दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान् ॥११-१८-२२॥
ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम्। मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय ॥११-१८-२३॥
निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्। क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः ॥११-१८-२४॥
न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्। वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ॥११-१८-२५॥
तानेष रभसः क्रूरो वाक्षल्यानवधारयन्। उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ॥११-१८-२६॥
एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ। निहतो भीमसेनेन सिंहेनेव महर्षभः ॥११-१८-२७॥
अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः। दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ॥११-१८-२८॥