Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.025
Pancharatra and Core: Finally, anger takes over Gandhari and she curses Krishna, saying Yadavas will meet a similar end 36 years from now, fighting among themselves.
गान्धार्युवाच॥
काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम्। शयानमृषभस्कन्धं हतं पांसुशु माधव ॥११-२५-१॥
यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ। अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ॥११-२५-२॥
इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली। ययोर्विवरमापन्नां न रतिर्मां पुराजहत् ॥११-२५-३॥
कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर। दूरबन्धुरनाथेव अतीव मधुरस्वरा ॥११-२५-४॥
आतपे क्लाम्यमानानां विविधानामिव स्रजाम्। क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम् ॥११-२५-५॥
शयानमभितः शूरं कालिङ्गं मधुसूदन। पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम् ॥११-२५-६॥
मागधानामधिपतिं जयत्सेनं जनार्दन। परिवार्य प्ररुदिता मागध्यः पश्य योषितः ॥११-२५-७॥
आसामायतनेत्राणां सुस्वराणां जनार्दन। मनःश्रुतिहरो नादो मनो मोहयतीव मे ॥११-२५-८॥
प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः। स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि ॥११-२५-९॥
कोसलानामधिपतिं राजपुत्रं बृहद्बलम्। भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः ॥११-२५-१०॥
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान्। उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः ॥११-२५-११॥
आसां सर्वानवद्यानामातपेन परिश्रमात्। प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ॥११-२५-१२॥
द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः। द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः ॥११-२५-१३॥
तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः। भासयन्ति महीं भासा ज्वलिता इव पावकाः ॥११-२५-१४॥
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम्। महाद्विपमिवारण्ये सिंहेन महता हतम् ॥११-२५-१५॥
पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम्। आतपत्रं समाभाति शरदीव दिवाकरः ॥११-२५-१६॥
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः। दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः ॥११-२५-१७॥
धृष्टकेतुं महेष्वासं चेदिपुङ्गवमङ्गनाः। द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ॥११-२५-१८॥
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन। महेष्वासो हतः शेते नद्या हृत इव द्रुमः ॥११-२५-१९॥
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः। शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः ॥११-२५-२०॥
वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः। चेदिराजं हृषीकेश हतं सबलबान्धवम् ॥११-२५-२१॥
दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम्। आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः ॥११-२५-२२॥
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम्। द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः ॥११-२५-२३॥
पितरं नूनमाजिस्थं युध्यमानं परैः सह। नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन ॥११-२५-२४॥
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्। दुर्योधनं महाबाहो लक्ष्मणः परवीरहा ॥११-२५-२५॥
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव। हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ॥११-२५-२६॥
काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ। ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ ॥११-२५-२७॥
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह। ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ॥११-२५-२८॥
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात्। सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ॥ ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ॥११-२५-२९॥
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम्। नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन ॥ यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः ॥११-२५-३०॥
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः। यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः ॥११-२५-३१॥
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च। तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ॥११-२५-३२॥
तयोर्न दर्शनं तात मिथ्या भवितुमर्हति। अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ॥११-२५-३३॥
वैशम्पायन उवाच॥
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता। दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत ॥११-२५-३४॥
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता। जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ॥११-२५-३५॥
गान्धार्युवाच॥
पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम्। उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥११-२५-३६॥
शक्तेन बहुभृत्येन विपुले तिष्ठता बले। उभयत्र समर्थेन श्रुतवाक्येन चैव ह ॥११-२५-३७॥
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन। यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि ॥११-२५-३८॥
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम्। तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर ॥११-२५-३९॥
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः। उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥११-२५-४०॥
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन। हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः ॥११-२५-४१॥
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ॥११-२५-४१॥
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः। स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः ॥११-२५-४२॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः। उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥११-२५-४३॥
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे। जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये ॥११-२५-४४॥
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः। परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः ॥११-२५-४५॥
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः। बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ॥११-२५-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.