Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.034
Core and Pancharatra: Vyasa instructs Yudhishthira that he has done only his duty and no sin attaches to him. He should perform the horse-sacrifice and assure all the kingdoms.
वैशम्पायन उवाच॥
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा। समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् ॥१२-३४-१॥
मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर। स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ ॥१२-३४-२॥
काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः। कृतान्तविधिसंयुक्ताः कालेन निधनं गताः ॥१२-३४-३॥
न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि। कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् ॥१२-३४-४॥
न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन। कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः ॥१२-३४-५॥
हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ। यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् ॥१२-३४-६॥
कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः। सुखदुःखगुणोदर्कं कालं कालफलप्रदम् ॥१२-३४-७॥
तेषामपि महाबाहो कर्माणि परिचिन्तय। विनाशहेतुकारित्वे यैस्ते कालवशं गताः ॥१२-३४-८॥
आत्मनश्च विजानीहि नियमव्रतशीलताम्। यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः ॥१२-३४-९॥
त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे। कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् ॥१२-३४-१०॥
पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः। यदृच्छया विनाशं च शोकहर्षावनर्थकौ ॥१२-३४-११॥
व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव। तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर ॥१२-३४-१२॥
इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा। असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः ॥१२-३४-१३॥
तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः। युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल ॥१२-३४-१४॥
एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम्। जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे ॥१२-३४-१५॥
तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः। संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः ॥१२-३४-१६॥
शालावृका इति ख्यातास्त्रिषु लोकेषु भारत। अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः ॥१२-३४-१७॥
धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः। हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः ॥१२-३४-१८॥
एकं हत्वा यदि कुले शिष्टानां स्यादनामयम्। कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम् ॥१२-३४-१९॥
अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप। धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता ॥१२-३४-२०॥
तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव। देवैः पूर्वगतं मार्गमनुयातोऽसि भारत ॥१२-३४-२१॥
न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ। भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परन्तप ॥१२-३४-२२॥
यो हि पापसमारम्भे कार्ये तद्भावभावितः। कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः ॥१२-३४-२३॥
तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम्। प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः ॥१२-३४-२४॥
त्वं तु शुक्लाभिजातीयः परदोषेण कारितः। अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे ॥१२-३४-२५॥
अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम्। तमाहर महाराज विपाप्मैवं भविष्यसि ॥१२-३४-२६॥
मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः। एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः ॥१२-३४-२७॥
पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान्। मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः ॥१२-३४-२८॥
स्वर्गलोके महीयन्तमप्सरोभिः शचीपतिम्। ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् ॥१२-३४-२९॥
सोऽयं त्वमिह सङ्क्रान्तो विक्रमेण वसुन्धराम्। निर्जिताश्च महीपाला विक्रमेण त्वयानघ ॥१२-३४-३०॥
तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः। भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय ॥१२-३४-३१॥
बालानपि च गर्भस्थान्सान्त्वानि समुदाचरन्। रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुन्धराम् ॥१२-३४-३२॥
कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय। कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यति ॥१२-३४-३३॥
एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत। यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा ॥१२-३४-३४॥
अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ। स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः ॥१२-३४-३५॥
अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम्। चरस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भाविकः ॥१२-३४-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.