Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.039
Core and Pancharatra: Pandavas enter the city filled with words of praise and with sounds arising from affection. Killing of Cārvāka demon disguised as a Brāhmaṇa by Brahmanas by uttering 'huṅ' sounds.
वैशम्पायन उवाच॥
प्रवेशने तु पार्थानां जनस्य पुरवासिनः। दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ ॥१२-३९-१॥
स राजमार्गः शुशुभे समलङ्कृतचत्वरः। यथा चन्द्रोदये राजन्वर्धमानो महोदधिः ॥१२-३९-२॥
गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च। प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत ॥१२-३९-३॥
ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्। भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ॥१२-३९-४॥
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्। उपतिष्ठसि कल्याणि महर्षीनिव गौतमी ॥१२-३९-५॥
तव कर्माण्यमोघानि व्रतचर्या च भामिनि। इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ॥१२-३९-६॥
प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत। प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ॥१२-३९-७॥
तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः। अलङ्कृतं शोभमानमुपायाद्राजवेश्म ह ॥१२-३९-८॥
ततः प्रकृतयः सर्वाः पौरजानपदास्तथा। ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः ॥१२-३९-९॥
दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन। दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ॥१२-३९-१०॥
भव नस्त्वं महाराज राजेह शरदां शतम्। प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप ॥१२-३९-११॥
एवं राजकुलद्वारि मङ्गलैरभिपूजितः। आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः ॥१२-३९-१२॥
प्रविश्य भवनं राजा देवराजगृहोपमम्। श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् ॥१२-३९-१३॥
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च। पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः ॥१२-३९-१४॥
निश्चक्राम ततः श्रीमान्पुनरेव महायशाः। ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान् ॥१२-३९-१५॥
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः। शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ॥१२-३९-१६॥
तान्स सम्पूजयामास कौन्तेयो विधिवद्द्विजान्। धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च ॥१२-३९-१७॥
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा। गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ॥१२-३९-१८॥
ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत। सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः ॥१२-३९-१९॥
हंसवन्नेदुषां राजन्द्विजानां तत्र भारती। शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ॥१२-३९-२०॥
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः। जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ॥१२-३९-२१॥
निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः। राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् ॥१२-३९-२२॥
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः। साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥१२-३९-२३॥
वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः। परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः ॥१२-३९-२४॥
स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम्। अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् ॥१२-३९-२५॥
इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि। धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ॥१२-३९-२६॥
किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसङ्क्षयम्। घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ॥१२-३९-२७॥
इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः। विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ॥१२-३९-२८॥
ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः। व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते ॥१२-३९-२९॥
युधिष्ठिर उवाच॥
प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः। प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ ॥१२-३९-३०॥
वैशम्पायन उवाच॥
ततो राजन्ब्राह्मणास्ते सर्व एव विशां पते। ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव ॥१२-३९-३१॥
जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा। ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ॥१२-३९-३२॥
ब्राह्मणा ऊचुः॥
एष दुर्योधनसखा चार्वाको नाम राक्षसः। परिव्राजकरूपेण हितं तस्य चिकीर्षति ॥१२-३९-३३॥
न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम्। उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ॥१२-३९-३४॥
वैशम्पायन उवाच॥
ततस्ते ब्राह्मणाः सर्वे हुङ्कारैः क्रोधमूर्छिताः। निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ॥१२-३९-३५॥
स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्। महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ॥१२-३९-३६॥
पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्। राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ॥१२-३९-३७॥
वासुदेव उवाच॥
ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम। एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः ॥१२-३९-३८॥
पुरा कृतयुगे तात चार्वाको नाम राक्षसः। तपस्तेपे महाबाहो बदर्यां बहुवत्सरम् ॥१२-३९-३९॥
छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः। अभयं सर्वभूतेभ्यो वरयामास भारत ॥१२-३९-४०॥
द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम्। अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः ॥१२-३९-४१॥
स तु लब्धवरः पापो देवानमितविक्रमः। राक्षसस्तापयामास तीव्रकर्मा महाबलः ॥१२-३९-४२॥
ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन्। वधाय रक्षसस्तस्य बलविप्रकृतास्तदा ॥१२-३९-४३॥
तानुवाचाव्ययो देवो विहितं तत्र वै मया। यथास्य भविता मृत्युरचिरेणैव भारत ॥१२-३९-४४॥
राजा दुर्योधनो नाम सखास्य भविता नृप। तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते ॥१२-३९-४५॥
तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः। धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति ॥१२-३९-४६॥
स एष निहतः शेते ब्रह्मदण्डेन राक्षसः। चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ ॥१२-३९-४७॥
हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव। स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः ॥१२-३९-४८॥
स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत। शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय ॥१२-३९-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.