12.043
Pancharatra: King Yudhishthira praises Lord Krishna with the Satvatha Samhita (Pancharatra Agama) tenets in the assembly.
वैशम्पायन उवाच॥
अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः। दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः ॥१२-४३-१॥
तव कृष्ण प्रसादेन नयेन च बलेन च। बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च ॥१२-४३-२॥
पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया। नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम ॥१२-४३-३॥
त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम्। नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः ॥१२-४३-४॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव। विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥१२-४३-५॥
अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः। पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि ॥१२-४३-६॥
शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे। त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च ॥१२-४३-७॥
वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः। अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः ॥१२-४३-८॥
वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः। अच्युतश्च्यावनोऽरीणां सङ्कृतिर्विकृतिर्वृषः ॥१२-४३-९॥
कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः। सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः ॥१२-४३-१०॥
सम्राड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः। विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च ॥१२-४३-११॥
स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः। यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे ॥१२-४३-१२॥
शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः। सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा ॥१२-४३-१३॥
गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः। ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे ॥१२-४३-१४॥
अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च। हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव ॥१२-४३-१५॥
योनिस्त्वमस्य प्रलयश्च कृष्ण; त्वमेवेदं सृजसि विश्वमग्रे। विश्वं चेदं त्वद्वशे विश्वयोने; नमोऽस्तु ते शार्ङ्गचक्रासिपाणे ॥१२-४३-१६॥
एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान्पुष्कराक्षः। तमभ्यनन्दद्भारतं पुष्कलाभि; र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः ॥१२-४३-१७॥