Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.044
Pancharatra: Vṛkodara got Duryodhana's house; Arjuna got Duḥśāsana's, Nakula got Durmarṣaṇa's, Sahadeva got Durmukha's. Kṛṣṇa, accompanied by Sātyaki, entered Arjuna's residence.
वैशम्पायन उवाच॥
ततो विसर्जयामास सर्वाः प्रकृतयो नृपः। विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च ॥१२-४४-१॥
ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्। सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा ॥१२-४४-२॥
शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे। श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः ॥१२-४४-३॥
अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः। भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा ॥१२-४४-४॥
यथासुखं यथाजोषं जयोऽयमनुभूयताम्। विश्रान्ताँल्लब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः ॥१२-४४-५॥
ततो दुर्योधनगृहं प्रासादैरुपशोभितम्। बहुरत्नसमाकीर्णं दासीदाससमाकुलम् ॥१२-४४-६॥
धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः। प्रतिपेदे महाबाहुर्मन्दरं मघवानिव ॥१२-४४-७॥
यथा दुर्योधनगृहं तथा दुःशासनस्य च। प्रासादमालासंयुक्तं हेमतोरणभूषितम् ॥१२-४४-८॥
दासीदाससुसम्पूर्णं प्रभूतधनधान्यवत्। प्रतिपेदे महाबाहुरर्जुनो राजशासनात् ॥१२-४४-९॥
दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम्। कुबेरभवनप्रख्यं मणिहेमविभूषितम् ॥१२-४४-१०॥
नकुलाय वरार्हाय कर्शिताय महावने। ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः ॥१२-४४-११॥
दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम्। पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् ॥१२-४४-१२॥
प्रददौ सहदेवाय सततं प्रियकारिणे। मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा ॥१२-४४-१३॥
युयुत्सुर्विदुरश्चैव सञ्जयश्च महाद्युतिः। सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान् ॥१२-४४-१४॥
सह सात्यकिना शौरिरर्जुनस्य निवेशनम्। विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव ॥१२-४४-१५॥
तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः। सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम् ॥१२-४४-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.