Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.045
Pancharatra: King Yudhiṣṭhira, the king of dharma, approached Lord Krishna and started to praise; the Blessed Lord did not say anything, but entered into meditation.
जनमेजय उवाच॥
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः। यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥१२-४५-१॥
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः। ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥१२-४५-२॥
वैशम्पायन उवाच॥
शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ। वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ॥१२-४५-३॥
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः। चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् ॥१२-४५-४॥
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम्। सहस्रनिष्कमेकैकं वाचयामास पाण्डवः ॥१२-४५-५॥
तथानुजीविनो भृत्यान्संश्रितानतिथीनपि। कामैः सन्तर्पयामास कृपणांस्तर्ककानपि ॥१२-४५-६॥
पुरोहिताय धौम्याय प्रादादयुतशः स गाः। धनं सुवर्णं रजतं वासांसि विविधानि च ॥१२-४५-७॥
कृपाय च महाराज गुरुवृत्तिमवर्तत। विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः ॥१२-४५-८॥
भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः। सर्वान्सन्तोषयामास संश्रितान्ददतां वरः ॥१२-४५-९॥
लब्धप्रशमनं कृत्वा स राजा राजसत्तम। युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः ॥१२-४५-१०॥
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च। निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः ॥१२-४५-११॥
तथा सर्वं स नगरं प्रसाद्य जनमेजय। वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ॥१२-४५-१२॥
ततो महति पर्यङ्के मणिकाञ्चनभूषिते। ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥१२-४५-१३॥
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम्। पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् ॥१२-४५-१४॥
कौस्तुभेन उरःस्थेन मणिनाभिविराजितम्। उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् ॥ नौपम्यं विद्यते यस्य त्रिषु लोकेषु किञ्चन ॥१२-४५-१५॥
सोऽभिगम्य महात्मानं विष्णुं पुरुषविग्रहम्। उवाच मधुराभाषः स्मितपूर्वमिदं तदा ॥१२-४५-१६॥
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर। कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥१२-४५-१७॥
तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर। वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥१२-४५-१८॥
भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम। जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् ॥१२-४५-१९॥
तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम्। नोवाच भगवान्किञ्चिद्ध्यानमेवान्वपद्यत ॥१२-४५-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.