Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.143
भीष्म उवाच॥
ततस्तं लुब्धकः पश्यन्कृपयाभिपरिप्लुतः। कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह ॥१२-१४३-१॥
किमीदृशं नृशंसेन मया कृतमबुद्धिना। भविष्यति हि मे नित्यं पातकं हृदि जीवतः ॥१२-१४३-२॥
स विनिन्दन्नथात्मानं पुनः पुनरुवाच ह। धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् ॥ शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः ॥१२-१४३-३॥
नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः। दत्तः स्वमांसं ददता कपोतेन महात्मना ॥१२-१४३-४॥
सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रदारं विसृज्य च। उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा ॥१२-१४३-५॥
अद्य प्रभृति देहं स्वं सर्वभोगैर्विवर्जितम्। यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्यहं तथा ॥१२-१४३-६॥
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः। उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् ॥१२-१४३-७॥
अहो देहप्रदानेन दर्शितातिथिपूजना। तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः ॥ दृष्टो हि धर्मो धर्मिष्ठैर्यादृशो विहगोत्तमे ॥१२-१४३-८॥
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः। महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः ॥१२-१४३-९॥
ततो यष्टिं शलाकाश्च क्षारकं पञ्जरं तथा। तांश्च बद्धा कपोतान्स सम्प्रमुच्योत्ससर्ज ह ॥१२-१४३-१०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.