Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.162
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन। प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ॥१२-१६२-१॥
कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत्। आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥१२-१६२-२॥
न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः। तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥१२-१६२-३॥
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्। एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ॥१२-१६२-४॥
भीष्म उवाच॥
सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः। वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥१२-१६२-५॥
लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च। क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः ॥१२-१६२-६॥
दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः। व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥१२-१६२-७॥
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः। सम्प्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत् ॥१२-१६२-८॥
असत्यो लोकविद्विष्टः समये चानवस्थितः। पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥१२-१६२-९॥
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा। मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः ॥१२-१६२-१०॥
वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः। अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ ॥१२-१६२-११॥
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते। सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी ॥१२-१६२-१२॥
अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च। कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप ॥१२-१६२-१३॥
शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः। न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम् ॥१२-१६२-१४॥
पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा। परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः ॥१२-१६२-१५॥
कृतघ्नश्चाधमो लोके न सन्धेयः कथञ्चन। छिद्रान्वेषी न सन्धेयः सन्धेयानपि मे शृणु ॥१२-१६२-१६॥
कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः। मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः ॥१२-१६२-१७॥
माधुर्यगुणसम्पन्नाः सत्यसन्धा जितेन्द्रियाः। व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः ॥१२-१६२-१८॥
रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः। दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह ॥१२-१६२-१९॥
यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो। नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ॥१२-१६२-२०॥
विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः। आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः ॥ न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम् ॥१२-१६२-२१॥
दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ। न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः ॥१२-१६२-२२॥
लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः। ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः ॥ सङ्गृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ॥१२-१६२-२३॥
ईदृशैः पुरुषश्रेष्ठैः सन्धिं यः कुरुते नृपः। तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव ॥१२-१६२-२४॥
शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः। क्षान्ताः शीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः ॥१२-१६२-२५॥
ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ। तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः ॥ त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः ॥१२-१६२-२६॥
युधिष्ठिर उवाच॥
विस्तरेणार्थसम्बन्धं श्रोतुमिच्छामि पार्थिव। मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद ॥१२-१६२-२७॥
भीष्म उवाच॥
हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्। उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ॥१२-१६२-२८॥
ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः। ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया ॥१२-१६२-२९॥
तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित्। ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् ॥१२-१६२-३०॥
तस्य क्षयमुपागम्य ततो भिक्षामयाचत। प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ॥१२-१६२-३१॥
प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम्। नारीं चापि वयोपेतां भर्त्रा विरहितां तदा ॥१२-१६२-३२॥
एतत्सम्प्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा। तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः ॥१२-१६२-३३॥
कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्यथाकरोत्। तत्रावसत्सोऽथ वर्षाः समृद्धे शबरालये ॥ बाणवेध्ये परं यत्नमकरोच्चैव गौतमः ॥१२-१६२-३४॥
वक्राङ्गांस्तु स नित्यं वै सर्वतो बाणगोचरे। जघान गौतमो राजन्यथा दस्युगणस्तथा ॥१२-१६२-३५॥
हिंसापरो घृणाहीनः सदा प्राणिवधे रतः। गौतमः संनिकर्षेण दस्युभिः समतामियात् ॥१२-१६२-३६॥
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा। अगच्छन्बहवो मासा निघ्नतः पक्षिणो बहून् ॥१२-१६२-३७॥
ततः कदाचिदपरो द्विजस्तं देशमागमत्। जटी चीराजिनधरः स्वाध्यायपरमः शुचिः ॥१२-१६२-३८॥
विनीतो नियताहारो ब्रह्मण्यो वेदपारगः। सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम् ॥ तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् ॥१२-१६२-३९॥
स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः। ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम् ॥१२-१६२-४०॥
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः। गौतमश्चापि सम्प्राप्तस्तावन्योन्येन सङ्गतौ ॥१२-१६२-४१॥
वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम्। रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ॥१२-१६२-४२॥
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम्। अभिज्ञाय द्विजो व्रीडामगमद्वाक्यमाह च ॥१२-१६२-४३॥
किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः। मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ॥१२-१६२-४४॥
पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान्। येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥१२-१६२-४५॥
अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम्। अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥१२-१६२-४६॥
एवमुक्तः स सुहृदा तदा तेन हितैषिणा। प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत् ॥१२-१६२-४७॥
अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम्। वृत्त्यर्थमिह सम्प्राप्तं विद्धि मां द्विजसत्तम ॥१२-१६२-४८॥
त्वद्दर्शनात्तु विप्रर्षे कृतार्थं वेद्म्यहं द्विज। आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम् ॥१२-१६२-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.