Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.163
भीष्म उवाच॥
तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे। निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत ॥१२-१६३-१॥
सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि। स तेन सार्थेन सह प्रययौ सागरं प्रति ॥१२-१६३-२॥
स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे। मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ॥१२-१६३-३॥
स कथञ्चित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा। कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥१२-१६३-४॥
स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः। एकाकी व्यद्रवत्तत्र वने किम्पुरुषो यथा ॥१२-१६३-५॥
स पन्थानमथासाद्य समुद्राभिसरं तदा। आससाद वनं रम्यं महत्पुष्पितपादपम् ॥१२-१६३-६॥
सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम्। नन्दनोद्देशसदृशं यक्षकिंनरसेवितम् ॥१२-१६३-७॥
शालतालधवाश्वत्थत्वचागुरुवनैस्तथा। चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् ॥ गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु ॥१२-१६३-८॥
समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै। मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः ॥ भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन् ॥१२-१६३-९॥
स तान्यतिमनोज्ञानि विहङ्गाभिरुतानि वै। शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः ॥१२-१६३-१०॥
ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते। देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे ॥१२-१६३-११॥
श्रियाऽजुष्टं महावृक्षं न्यग्रोधं परिमण्डलम्। शाखाभिरनुरूपाभिर्भूषितं छत्रसंनिभम् ॥१२-१६३-१२॥
तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा। दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् ॥१२-१६३-१३॥
तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम्। मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् ॥ तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत् ॥१२-१६३-१४॥
तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः। पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः ॥ ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप ॥१२-१६३-१५॥
स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना। सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात् ॥१२-१६३-१६॥
ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते। आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ॥१२-१६३-१७॥
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा। बकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः ॥१२-१६३-१८॥
राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि। देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः ॥१२-१६३-१९॥
मृष्टहाटकसञ्छन्नो भूषणैरर्कसंनिभैः। भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥१२-१६३-२०॥
तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत्। क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत ॥१२-१६३-२१॥
राजधर्मोवाच॥
स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम्। अस्तं च सविता यातः सन्ध्येयं समुपस्थिता ॥१२-१६३-२२॥
मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः। पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ॥१२-१६३-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.