Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.222
युधिष्ठिर उवाच॥
किंशीलः किंसमाचारः किंविद्यः किम्परायणः। प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥१२-२२२-१॥
भीष्म उवाच॥
मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः। प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥१२-२२२-२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। जैगीषव्यस्य संवादमसितस्य च भारत ॥१२-२२२-३॥
जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम्। अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् ॥१२-२२२-४॥
न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि। का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम् ॥१२-२२२-५॥
इति तेनानुयुक्तः स तमुवाच महातपाः। महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि ॥१२-२२२-६॥
या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम्। तां तेऽहं सम्प्रवक्ष्यामि यन्मां पृच्छसि वै द्विज ॥१२-२२२-७॥
निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल। निह्नुवन्ति च ये तेषां समयं सुकृतं च ये ॥१२-२२२-८॥
उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम्। प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ॥१२-२२२-९॥
नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते। न चातीतानि शोचन्ति न चैनान्प्रतिजानते ॥१२-२२२-१०॥
सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवल। यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः ॥१२-२२२-११॥
पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः। मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ॥१२-२२२-१२॥
अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन। न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥१२-२२२-१३॥
निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये। न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ॥१२-२२२-१४॥
सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः। न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् ॥ विमुच्य हृदयग्रन्थींश्चङ्कम्यन्ते यथासुखम् ॥१२-२२२-१५॥
न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः। अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् ॥१२-२२२-१६॥
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा। धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम ॥ ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ॥१२-२२२-१७॥
आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम्। निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ॥१२-२२२-१८॥
यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः। न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ॥१२-२२२-१९॥
अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित्। विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः ॥१२-२२२-२०॥
अवज्ञातः सुखं शेते इह चामुत्र चोभयोः। विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते ॥१२-२२२-२१॥
परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः। एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ॥१२-२२२-२२॥
सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः। प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥१२-२२२-२३॥
नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः। पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् ॥१२-२२२-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.