12.221
युधिष्ठिर उवाच॥
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः। पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह ॥१२-२२१-१॥
भीष्म उवाच॥
मन एव मनुष्यस्य पूर्वरूपाणि शंसति। भविष्यतश्च भद्रं ते तथैव नभविष्यतः ॥१२-२२१-२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर ॥१२-२२१-३॥
महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ। सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ॥१२-२२१-४॥
ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः। विचचार यथाकामं त्रिषु लोकेषु नारदः ॥१२-२२१-५॥
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि। ध्रुवद्वारभवां गङ्गां जगामावततार च ॥१२-२२१-६॥
सहस्रनयनश्चापि वज्री शम्बरपाकहा। तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह ॥१२-२२१-७॥
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः। नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ॥१२-२२१-८॥
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः। चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ ॥ पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ ॥१२-२२१-९॥
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम्। पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः ॥१२-२२१-१०॥
अभितस्तूदयन्तं तमर्कमर्कमिवापरम्। आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम् ॥१२-२२१-११॥
तयोः समीपं सम्प्राप्तं प्रत्यदृश्यत भारत। तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम् ॥ भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत् ॥१२-२२१-१२॥
दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम्। बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम् ॥१२-२२१-१३॥
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम्। श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम् ॥१२-२२१-१४॥
सावरुह्य विमानाग्रादङ्गनानामनुत्तमा। अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम् ॥१२-२२१-१५॥
नारदानुगतः साक्षान्मघवांस्तामुपागमत्। कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना ॥१२-२२१-१६॥
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित्। देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह ॥१२-२२१-१७॥
का त्वं केन च कार्येण सम्प्राप्ता चारुहासिनि। कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे ॥१२-२२१-१८॥
श्रीरुवाच॥
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः। ममात्मभावमिच्छन्तो यतन्ते परमात्मना ॥१२-२२१-१९॥
साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते। भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥१२-२२१-२०॥
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन। अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः ॥१२-२२१-२१॥
अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च। अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः ॥१२-२२१-२२॥
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च। निवासे धर्मशीलानां विषयेषु पुरेषु च ॥१२-२२१-२३॥
जितकाशिनि शूरे च सङ्ग्रामेष्वनिवर्तिनि। निवसामि मनुष्येन्द्रे सदैव बलसूदन ॥१२-२२१-२४॥
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि। प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥१२-२२१-२५॥
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना। विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम् ॥१२-२२१-२६॥
शक्र उवाच॥
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने। दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान् ॥१२-२२१-२७॥
श्रीरुवाच॥
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च। स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम् ॥१२-२२१-२८॥
दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम्। विप्राणामतिथीनां च तेषां नित्यमवर्तत ॥१२-२२१-२९॥
सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः। गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः ॥१२-२२१-३०॥
श्रद्दधाना जितक्रोधा दानशीलानसूयकाः। भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः ॥१२-२२१-३१॥
अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन। न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥१२-२२१-३२॥
दातारः सङ्गृहीतार आर्याः करुणवेदिनः। महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः ॥१२-२२१-३३॥
सन्तुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः। यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः ॥१२-२२१-३४॥
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलङ्कृताः। उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः ॥१२-२२१-३५॥
नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः। रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन् ॥१२-२२१-३६॥
काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः। मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन् ॥१२-२२१-३७॥
सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम्। अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा ॥१२-२२१-३८॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्। दायं च संविभागं च नित्यमेवानुमोदताम् ॥१२-२२१-३९॥
विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम्। हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते ॥१२-२२१-४०॥
धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम्। अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः ॥१२-२२१-४१॥
पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन्। अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः ॥१२-२२१-४२॥
नैकेऽश्नन्ति सुसम्पन्नं न गच्छन्ति परस्त्रियम्। सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति ॥१२-२२१-४३॥
नैवाकाशे न पशुषु नायोनौ न च पर्वसु। इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन ॥१२-२२१-४४॥
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा। उत्साहश्चानहङ्कारः परमं सौहृदं क्षमा ॥१२-२२१-४५॥
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा। मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो ॥१२-२२१-४६॥
निद्रा तन्द्रीरसम्प्रीतिरसूया चानवेक्षिता। अरतिश्च विषादश्च न स्पृहा चाविशन्त तान् ॥१२-२२१-४७॥
साहमेवङ्गुणेष्वेव दानवेष्ववसं पुरा। प्रजासर्गमुपादाय नैकं युगविपर्ययम् ॥१२-२२१-४८॥
ततः कालविपर्यासे तेषां गुणविपर्ययात्। अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम् ॥१२-२२१-४९॥
सभासदां ते वृद्धानां सत्याः कथयतां कथाः। प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः ॥१२-२२१-५०॥
यूनः सहसमासीनान्वृद्धानभिगतान्सतः। नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन् ॥१२-२२१-५१॥
वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः। अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः ॥१२-२२१-५२॥
तथा धर्मादपेतेन कर्मणा गर्हितेन ये। महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा ॥१२-२२१-५३॥
उच्छैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत्। पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन् ॥१२-२२१-५४॥
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्। गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन् ॥१२-२२१-५५॥
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते। अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून् ॥१२-२२१-५६॥
न शौचमनुरुध्यन्त तेषां सूदजनास्तथा। मनसा कर्मणा वाचा भक्तमासीदनावृतम् ॥१२-२२१-५७॥
विप्रकीर्णानि धान्यानि काकमूषकभोजनम्। अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम् ॥१२-२२१-५८॥
कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम्। द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी ॥१२-२२१-५९॥
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते। नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च ॥१२-२२१-६०॥
बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयन्। तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः ॥१२-२२१-६१॥
पायसं कृसरं मांसमपूपानथ शष्कुलीः। अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन् ॥१२-२२१-६२॥
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः। अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे ॥१२-२२१-६३॥
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह। आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम् ॥ सङ्कराश्चाप्यवर्तन्त न च शौचमवर्तत ॥१२-२२१-६४॥
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये। निरन्तरविशेषास्ते बहुमानावमानयोः ॥१२-२२१-६५॥
हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम्। असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम् ॥१२-२२१-६६॥
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः। क्रीडारतिविहारेषु परां मुदमवाप्नुवन् ॥१२-२२१-६७॥
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान्। नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः सम्भवेष्वपि ॥१२-२२१-६८॥
मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित्। वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु ॥१२-२२१-६९॥
परस्वादानरुचयो विपण्यव्यवहारिणः। अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः ॥१२-२२१-७०॥
अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे। अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः ॥१२-२२१-७१॥
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव। अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् ॥१२-२२१-७२॥
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः। कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत ॥१२-२२१-७३॥
प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः। शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह ॥१२-२२१-७४॥
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत। अन्वशासच्च भर्तारं समाहूयाभिजल्पती ॥१२-२२१-७५॥
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता। व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन् ॥१२-२२१-७६॥
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम्। दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्सम्भाविता ह्यपि ॥१२-२२१-७७॥
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः। अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः ॥१२-२२१-७८॥
तेष्वेवमादीनाचारानाचरत्सु विपर्यये। नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः ॥१२-२२१-७९॥
तां मां स्वयमनुप्राप्तामभिनन्द शचीपते। त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः ॥१२-२२१-८०॥
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः। सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा ॥१२-२२१-८१॥
आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा। अष्टमी वृत्तिरेतासां पुरोगा पाकशासन ॥१२-२२१-८२॥
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता। त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ॥१२-२२१-८३॥
भीष्म उवाच॥
इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः। नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः ॥१२-२२१-८४॥
ततोऽनलसखो वायुः प्रववौ देववेश्मसु। इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ॥१२-२२१-८५॥
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः। लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः ॥१२-२२१-८६॥
ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा। रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणामभिसत्कृतो ययौ ॥१२-२२१-८७॥
अथेङ्गितं वज्रधरस्य नारदः; श्रियाश्च देव्या मनसा विचारयन्। श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत् ॥१२-२२१-८८॥
ततोऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयम्भुवः। अनाहता दुन्दुभयश्च नेदिरे; तथा प्रसन्नाश्च दिशश्चकाशिरे ॥१२-२२१-८९॥
यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद्विचचाल कश्चन। अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये ॥१२-२२१-९०॥
क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः। नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः ॥१२-२२१-९१॥
न जात्वकाले कुसुमं कुतः फलं; पपात वृक्षात्पवनेरितादपि। रसप्रदाः कामदुघाश्च धेनवो; न दारुणा वाग्विचचार कस्यचित् ॥१२-२२१-९२॥
इमां सपर्यां सह सर्वकामदैः; श्रियाश्च शक्रप्रमुखैश्च दैवतैः। पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियमाप्नुवन्ति ते ॥१२-२२१-९३॥
त्वया कुरूणां वर यत्प्रचोदितं; भवाभवस्येह परं निदर्शनम्। तदद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुमर्हसि ॥१२-२२१-९४॥