12.236
भीष्म उवाच॥
प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम्। तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर ॥१२-२३६-१॥
क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम्। संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् ॥१२-२३६-२॥
श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम्। प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् ॥१२-२३६-३॥
व्यास उवाच॥
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः। अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत् ॥१२-२३६-४॥
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत्। तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः ॥१२-२३६-५॥
नियतो नियताहारः षष्ठभक्तोऽप्रमादवान्। तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः ॥१२-२३६-६॥
अकृष्टं वै व्रीहियवं नीवारं विघसानि च। हवींषि सम्प्रयच्छेत मखेष्वत्रापि पञ्चसु ॥१२-२३६-७॥
वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः। सद्यःप्रक्षालकाः केचित्केचिन्मासिकसञ्चयाः ॥१२-२३६-८॥
वार्षिकं सञ्चयं केचित्केचिद्द्वादशवार्षिकम्। कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये ॥१२-२३६-९॥
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः। ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः ॥१२-२३६-१०॥
भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि। स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते ॥१२-२३६-११॥
दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे। शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् ॥१२-२३६-१२॥
कृष्णपक्षे पिबन्त्येके भुञ्जते च यथाक्रमम्। मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः ॥१२-२३६-१३॥
वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः। एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ॥१२-२३६-१४॥
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः। वानप्रस्थो गृहस्थश्च ततोऽन्यः सम्प्रवर्तते ॥१२-२३६-१५॥
अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः। अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः ॥१२-२३६-१६॥
साङ्कृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः। अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः ॥१२-२३६-१७॥
शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः। एवन्धर्मसु विद्वांसस्ततः स्वर्गमुपागमन् ॥१२-२३६-१८॥
तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः। ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम् ॥१२-२३६-१९॥
अवाच्यापरिमेयाश्च ब्राह्मणा वनमाश्रिताः। वैखानसा वालखिल्याः सिकताश्च तथापरे ॥१२-२३६-२०॥
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः। गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः ॥ अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः ॥१२-२३६-२१॥
जरया च परिद्यूनो व्याधिना च प्रपीडितः। चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् ॥ सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ॥१२-२३६-२२॥
आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः। आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् ॥१२-२३६-२३॥
सद्यस्क्रांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा। सदैव याजिनां यज्ञादात्मनीज्या निवर्तते ॥१२-२३६-२४॥
त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात्। प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीयादकुत्सयन् ॥१२-२३६-२५॥
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः। आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः ॥१२-२३६-२६॥
अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः। लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते ॥१२-२३६-२७॥
सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुमीहते। अरोषमोहो गतसन्धिविग्रहो; भवेदुदासीनवदात्मविन्नरः ॥१२-२३६-२८॥
यमेषु चैवात्मगतेषु न व्यथे; त्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः। भवेद्यथेष्टा गतिरात्मयाजिनो; न संशयो धर्मपरे जीतेन्द्रिये ॥१२-२३६-२९॥
ततः परं श्रेष्ठमतीव सद्गुणै; रधिष्ठितं त्रीनधिवृत्तमुत्तमम्। चतुर्थमुक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं परायणम् ॥१२-२३६-३०॥