12.333
वैशम्पायन उवाच॥
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः। दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ॥१२-३३३-१॥
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः। क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥१२-३३३-२॥
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम्। किमेतत्क्रियते कर्म फलं चास्य किमिष्यते ॥१२-३३३-३॥
नारद उवाच॥
त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि। दैवतं च परो यज्ञः परमात्मा सनातनः ॥१२-३३३-४॥
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम्। तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ॥१२-३३३-५॥
मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत्। अहं सङ्कल्पजस्तस्य पुत्रः प्रथमकल्पितः ॥१२-३३३-६॥
यजाम्यहं पितॄन्साधो नारायणविधौ कृते। एवं स एव भगवान्पिता माता पितामहः ॥ इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ॥१२-३३३-७॥
श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽयजन्। वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः ॥ ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे ॥१२-३३३-८॥
नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः। पुत्राश्च पितरश्चैव परस्परमपूजयन् ॥१२-३३३-९॥
त्रीन्पिण्डान्न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशानिति। कथं तु पिण्डसञ्ज्ञां ते पितरो लेभिरे पुरा ॥१२-३३३-१०॥
नरनारायणावूचतुः॥
इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम्। गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः ॥१२-३३३-११॥
स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः। जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः ॥१२-३३३-१२॥
प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ। दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः ॥ स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद ॥१२-३३३-१३॥
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि। सङ्कल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः ॥१२-३३३-१४॥
आत्मगात्रोष्मसम्भूतैः स्नेहगर्भैस्तिलैरपि। प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान्स्वयम् ॥१२-३३३-१५॥
मर्यादास्थापनार्थं च ततो वचनमुक्तवान्। अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् ॥१२-३३३-१६॥
तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम्। दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् ॥ आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते ॥१२-३३३-१७॥
त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे। भवन्तु पितरो लोके मया सृष्टाः सनातनाः ॥१२-३३३-१८॥
पिता पितामहश्चैव तथैव प्रपितामहः। अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः ॥१२-३३३-१९॥
नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम्। को वा मम पिता लोके अहमेव पितामहः ॥१२-३३३-२०॥
पितामहपिता चैव अहमेवात्र कारणम्। इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः ॥१२-३३३-२१॥
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान्। आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः ॥१२-३३३-२२॥
एतदर्थं शुभमते पितरः पिण्डसञ्ज्ञिताः। लभन्ते सततं पूजां वृषाकपिवचो यथा ॥१२-३३३-२३॥
ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा। गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा ॥ कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ॥१२-३३३-२४॥
अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः। समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः ॥ महान्महात्मा सर्वात्मा नारायण इति श्रुतः ॥१२-३३३-२५॥