12.345
भीष्म उवाच॥
स वनानि विचित्राणि तीर्थानि च सरांसि च। अभिगच्छन्क्रमेण स्म कञ्चिन्मुनिमुपस्थितः ॥१२-३४५-१॥
तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः। पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः ॥१२-३४५-२॥
सोऽभिगम्य यथाख्यातं नागायतनमर्थवित्। प्रोक्तवानहमस्मीति भोःशब्दालङ्कृतं वचः ॥१२-३४५-३॥
ततस्तस्य वचः श्रुत्वा रूपिणी धर्मवत्सला। दर्शयामास तं विप्रं नागपत्नी पतिव्रता ॥१२-३४५-४॥
सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा। स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् ॥१२-३४५-५॥
ब्राह्मण उवाच॥
विश्रान्तोऽभ्यर्चितश्चास्मि भवत्या श्लक्ष्णया गिरा। द्रष्टुमिच्छामि भवति तं देवं नागमुत्तमम् ॥१२-३४५-६॥
एतद्धि परमं कार्यमेतन्मे फलमीप्सितम्। अनेनार्थेन चास्म्यद्य सम्प्राप्तः पन्नगालयम् ॥१२-३४५-७॥
नागभार्योवाच॥
आर्य सूर्यरथं वोढुं गतोऽसौ मासचारिकः। सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् ॥१२-३४५-८॥
एतद्विदितमार्यस्य विवासकरणं मम। भर्तुर्भवतु किं चान्यत्क्रियतां तद्वदस्व मे ॥१२-३४५-९॥
ब्राह्मण उवाच॥
अनेन निश्चयेनाहं साध्वि सम्प्राप्तवानिह। प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्महावने ॥१२-३४५-१०॥
सम्प्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः। ममाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया ॥१२-३४५-११॥
अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे। कालं परिमिताहारो यथोक्तं परिपालयन् ॥१२-३४५-१२॥
भीष्म उवाच॥
ततः स विप्रस्तां नागीं समाधाय पुनः पुनः। तदेव पुलिनं नद्याः प्रययौ ब्राह्मणर्षभः ॥१२-३४५-१३॥