Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.346
भीष्म उवाच॥
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना। निराहारेण वसता दुःखितास्ते भुजङ्गमाः ॥१२-३४६-१॥
सर्वे सम्भूय सहितास्तस्य नागस्य बान्धवाः। भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति ॥१२-३४६-२॥
तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम्। समासीनं निराहारं द्विजं जप्यपरायणम् ॥१२-३४६-३॥
ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत्। ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः ॥१२-३४६-४॥
षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन। न चाभिलषसे किञ्चिदाहारं धर्मवत्सल ॥१२-३४६-५॥
अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः। कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः ॥१२-३४६-६॥
मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम। आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण ॥१२-३४६-७॥
त्यक्ताहारेण भवता वने निवसता सता। बालवृद्धमिदं सर्वं पीड्यते धर्मसङ्कटात् ॥१२-३४६-८॥
न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा। पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु ॥१२-३४६-९॥
ब्राह्मण उवाच॥
उपदेशेन युष्माकमाहारोऽयं मया वृतः। द्विरूनं दशरात्रं वै नागस्यागमनं प्रति ॥१२-३४६-१०॥
यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः। तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम् ॥१२-३४६-११॥
कर्तव्यो न च सन्तापो गम्यतां च यथागतम्। तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ ॥१२-३४६-१२॥
भीष्म उवाच॥
तेन ते समनुज्ञाता ब्राह्मणेन भुजङ्गमाः। स्वमेव भवनं जग्मुरकृतार्था नरर्षभ ॥१२-३४६-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.