13.014
उपमन्यूपाख्यानम्
शिवस्तवः
युधिष्ठिर उवाच॥
पितामहेशाय विभो नामान्याचक्ष्व शम्भवे। बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः ॥१३-१४-१॥
भीष्म उवाच॥
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि। शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः ॥१३-१४-२॥
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना। निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् ॥१३-१४-३॥
द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः। ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥१३-१४-४॥
ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये। महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने ॥१३-१४-५॥
वासुदेव उवाच॥
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः। हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः। न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः ॥ स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥१३-१४-७॥
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान्। भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥१३-१४-८॥
वैशम्पायन उवाच॥
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः। उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥१३-१४-९॥
वासुदेव उवाच॥
शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर। त्वं चापगेय नामानि निशामय जगत्पतेः ॥१३-१४-१०॥
यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम्। यथा च भगवान्दृष्टो मया पूर्वं समाधिना ॥१३-१४-११॥
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता। अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥१३-१४-१२॥
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान्। पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ॥१३-१४-१३॥
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम्। आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥१३-१४-१४॥
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन। लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥१३-१४-१५॥
त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता। आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ॥१३-१४-१६॥
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः। चारुश्रवाश्चारुयशाः प्रद्युम्नः शम्भुरेव च ॥१३-१४-१७॥
यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः। तथा ममापि तनयं प्रयच्छ बलशालिनम् ॥१३-१४-१८॥
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम्। अनुजानीहि मां राज्ञि करिष्ये वचनं तव ॥ सा च मामब्रवीद्गच्छ विजयाय शिवाय च ॥१३-१४-१९॥
ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः। क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा ॥१३-१४-२०॥
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः। देवपत्न्यो देवकन्या देवमातर एव च ॥१३-१४-२१॥
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः। सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः ॥१३-१४-२२॥
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः। रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् ॥ अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ॥१३-१४-२३॥
एवं कृतस्वस्त्ययनस्तयाहं; तामभ्यनुज्ञाय कपीन्द्रपुत्रीम्। पितुः समीपे नरसत्तमस्य; मातुश्च राज्ञश्च तथाहुकस्य ॥१३-१४-२४॥
तमर्थमावेद्य यदब्रवीन्मां; विद्याधरेन्द्रस्य सुता भृशार्ता। तानभ्यनुज्ञाय तदातिदुःखा; द्गदं तथैवातिबलं च रामम् ॥१३-१४-२५॥
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम्। सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥१३-१४-२६॥
तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे। क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् ॥१३-१४-२७॥
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः। पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम् ॥१३-१४-२८॥
धवककुभकदम्बनारिकेलैः; कुरबककेतकजम्बुपाटलाभिः। वटवरुणकवत्सनाभबिल्वैः; सरलकपित्थप्रियालसालतालैः ॥१३-१४-२९॥
बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः। भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा ॥१३-१४-३०॥
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम्। पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ॥१३-१४-३१॥
नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम्। यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः ॥१३-१४-३२॥
रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम्। कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् ॥ पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥१३-१४-३३॥
नानापुष्परजोमिश्रो गजदानाधिवासितः। दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ ॥१३-१४-३४॥
धारानिनादैर्विहगप्रणादैः; शुभैस्तथा बृंहितैः कुञ्जराणाम्। गीतैस्तथा किंनराणामुदारैः; शुभैः स्वनैः सामगानां च वीर ॥१३-१४-३५॥
अचिन्त्यं मनसाप्यन्यैः सरोभिः समलङ्कृतम्। विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् ॥१३-१४-३६॥
विभूषितं पुण्यपवित्रतोयया; सदा च जुष्टं नृप जह्नुकन्यया। महात्मभिर्धर्मभृतां वरिष्ठै; र्महर्षिभिर्भूषितमग्निकल्पैः ॥१३-१४-३७॥
वाय्वाहारैरम्बुपैर्जप्यनित्यैः; सम्प्रक्षालैर्यतिभिर्ध्याननित्यैः। धूमाशनैरूष्मपैः क्षीरपैश्च; विभूषितं ब्राह्मणेन्द्रैः समन्तात् ॥१३-१४-३८॥
गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा। मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥१३-१४-३९॥
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान्। पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे ॥१३-१४-४०॥
सुपूजितं देवगणैर्महात्मभिः; शिवादिभिर्भारत पुण्यकर्मभिः। रराज तच्चाश्रममण्डलं सदा; दिवीव राजन्रविमण्डलं यथा ॥१३-१४-४१॥
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत्। प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः ॥१३-१४-४२॥
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे। सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥१३-१४-४३॥
नानानियमविख्यातैरृषिभिश्च महात्मभिः। प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ॥१३-१४-४४॥
तेजसा तपसा चैव दीप्यमानं यथानलम्। शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् ॥ शिरसा वन्दमानं मामुपमन्युरभाषत ॥१३-१४-४५॥
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः। यत्पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुमिच्छसि ॥१३-१४-४६॥
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु। धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥१३-१४-४७॥
ततो मां भगवानाह साम्ना परमवल्गुना। लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम् ॥१३-१४-४८॥
तपः सुमहदास्थाय तोषयेशानमीश्वरम्। इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥१३-१४-४९॥
इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा। तपसा ब्रह्मचर्येण सत्येन च दमेन च ॥ तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन ॥१३-१४-५०॥
तेजसां तपसां चैव निधिः स भगवानिह। शुभाशुभान्वितान्भावान्विसृजन्सङ्क्षिपन्नपि ॥ आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥१३-१४-५१॥
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः। तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ॥१३-१४-५२॥
तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः। महादेववराच्छक्रं वर्षार्बुदमयोधयत् ॥१३-१४-५३॥
विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च। शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव ॥१३-१४-५४॥
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा। शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ॥१३-१४-५५॥
तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात्। शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ॥ ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ॥१३-१४-५६॥
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः। कुशद्वीपं च स ददौ राज्येन भगवानजः ॥१३-१४-५७॥
तथा शतमुखो नाम धात्रा सृष्टो महासुरः। येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः ॥ तं प्राह भगवांस्तुष्टः किं करोमीति शङ्करः ॥१३-१४-५८॥
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः। बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे ॥१३-१४-५९॥
स्वायम्भुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा। आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ॥१३-१४-६०॥
तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसंमितान्। योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ॥१३-१४-६१॥
वालखिल्या मघवता अवज्ञाताः पुरा किल। तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ॥१३-१४-६२॥
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः। सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ॥१३-१४-६३॥
महादेवस्य रोषाच्च आपो नष्टाः पुराभवन्। ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ॥१३-१४-६४॥
अत्रेर्भार्यापि भर्तारं सन्त्यज्य ब्रह्मवादिनी। नाहं तस्य मुनेर्भूयो वशगा स्यां कथञ्चन ॥ इत्युक्त्वा सा महादेवमगच्छच्छरणं किल ॥१३-१४-६५॥
निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि। अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ॥१३-१४-६६॥
तामब्रवीद्धसन्देवो भविता वै सुतस्तव। वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥१३-१४-६७॥
शाकल्यः संशितात्मा वै नव वर्षशतान्यपि। आराधयामास भवं मनोयज्ञेन केशव ॥१३-१४-६८॥
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि। वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति ॥ अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् ॥१३-१४-६९॥
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे। इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ ॥१३-१४-७०॥
तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ। ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥१३-१४-७१॥
मयापि च यथा दृष्टो देवदेवः पुरा विभुः। साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ॥१३-१४-७२॥
यदर्थं च महादेवः प्रयतेन मया पुरा। आराधितो महातेजास्तच्चापि शृणु विस्तरम् ॥१३-१४-७३॥
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात्। तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ ॥१३-१४-७४॥
पुरा कृतयुगे तात ऋषिरासीन्महायशाः। व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः ॥ तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ॥१३-१४-७५॥
कस्यचित्त्वथ कालस्य धौम्येन सह माधव। आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ॥१३-१४-७६॥
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी। लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ॥१३-१४-७७॥
ततः पिष्टं समालोड्य तोयेन सह माधव। आवयोः क्षीरमित्येव पानार्थमुपनीयते ॥१३-१४-७८॥
अथ गव्यं पयस्तात कदाचित्प्राशितं मया। ततः पिष्टरसं तात न मे प्रीतिमुदावहत् ॥१३-१४-७९॥
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा। क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे ॥१३-१४-८०॥
ततो मामब्रवीन्माता दुःखशोकसमन्विता। पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव ॥१३-१४-८१॥
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम्। वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥१३-१४-८२॥
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम्। कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥१३-१४-८३॥
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम्। तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥१३-१४-८४॥
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन्। मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥१३-१४-८५॥
ततोऽहं तप आस्थाय तोषयामास शङ्करम्। दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ॥१३-१४-८६॥
एकं वर्षशतं चैव फलाहारस्तदाभवम्। द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ॥ शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् ॥१३-१४-८७॥
ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः। शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः ॥ सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ॥१३-१४-८८॥
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम्। आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् ॥१३-१४-८९॥
समास्थितश्च भगवान्दीप्यमानः स्वतेजसा। आजगाम किरीटी तु हारकेयूरभूषितः ॥१३-१४-९०॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः ॥१३-१४-९१॥
ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम। वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥१३-१४-९२॥
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम्। अब्रुवं च तदा कृष्ण देवराजमिदं वचः ॥१३-१४-९३॥
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात्। महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ॥१३-१४-९४॥
पशुपतिवचनाद्भवामि सद्यः; कृमिरथ वा तरुरप्यनेकशाखः। अपशुपतिवरप्रसादजा मे; त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥१३-१४-९५॥
अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया। न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥१३-१४-९६॥
यावच्छशाङ्कशकलामलबद्धमौलि; र्न प्रीयते पशुपतिर्भगवान्ममेशः। तावज्जरामरणजन्मशताभिघातै; र्दुःखानि देहविहितानि समुद्वहामि ॥१३-१४-९७॥
दिवसकरशशाङ्कवह्निदीप्तं; त्रिभुवनसारमपारमाद्यमेकम्। अजरममरमप्रसाद्य रुद्रं; जगति पुमानिह को लभेत शान्तिम् ॥१३-१४-९८॥
शक्र उवाच॥
कः पुनस्तव हेतुर्वै ईशे कारणकारणे। येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ॥१३-१४-९९॥
उपमन्युरुवाच॥
हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम्। न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः ॥१३-१४-१००॥
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम्। अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥१३-१४-१०१॥
यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः। अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ॥१३-१४-१०२॥
तस्माद्वरमहं काङ्क्षे निधनं वापि कौशिक। गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥१३-१४-१०३॥
काममेष वरो मेऽस्तु शापो वापि महेश्वरात्। न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि ॥१३-१४-१०४॥
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः। न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् ॥ अथापश्यं क्षणेनैव तमेवैरावतं पुनः ॥१३-१४-१०५॥
हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम्। वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् ॥१३-१४-१०६॥
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम्। जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम् ॥१३-१४-१०७॥
रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम्। सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ॥१३-१४-१०८॥
ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम्। तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ॥१३-१४-१०९॥
तमास्थितश्च भगवान्देवदेवः सहोमया। अशोभत महादेवः पौर्णमास्यामिवोडुराट् ॥१३-१४-११०॥
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान्। सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति ॥१३-१४-१११॥
ईश्वरः सुमहातेजाः संवर्तक इवानलः। युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः ॥१३-१४-११२॥
तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः। पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् ॥१३-१४-११३॥
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश। प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥१३-१४-११४॥
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम्। सौरभेयगतं सौम्यं विधूममिव पावकम् ॥ सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ॥१३-१४-११५॥
नीलकण्ठं महात्मानमसक्तं तेजसां निधिम्। अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥१३-१४-११६॥
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम्। शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥१३-१४-११७॥
गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः। वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः ॥१३-१४-११८॥
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम्। त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः ॥१३-१४-११९॥
अशोभत च देवस्य माला गात्रे सितप्रभे। जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ॥१३-१४-१२०॥
मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च। मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥१३-१४-१२१॥
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः। पिनाकमिति विख्यातं स च वै पन्नगो महान् ॥१३-१४-१२२॥
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः। ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥१३-१४-१२३॥
शरश्च सूर्यसङ्काशः कालानलसमद्युतिः। यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् ॥१३-१४-१२४॥
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम्। सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ॥१३-१४-१२५॥
एकपादं महादंष्ट्रं सहस्रशिरसोदरम्। सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ॥१३-१४-१२६॥
ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात्। यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥१३-१४-१२७॥
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा। शरेणैकेन गोविन्द महादेवेन लीलया ॥१३-१४-१२८॥
निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम्। महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥१३-१४-१२९॥
नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि। तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् ॥१३-१४-१३०॥
गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा। यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥१३-१४-१३१॥
दारयेद्यन्महीं कृत्स्नां शोषयेद्वा महोदधिम्। संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ॥१३-१४-१३२॥
यौवनाश्वो हतो येन मान्धाता सबलः पुरा। चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥१३-१४-१३३॥
महाबलो महावीर्यः शक्रतुल्यपराक्रमः। करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥१३-१४-१३४॥
तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम्। त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम् ॥१३-१४-१३५॥
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम्। सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ॥ दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ ॥१३-१४-१३६॥
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा। महादेवेन तुष्टेन क्षत्रियाणां क्षयङ्करः ॥ कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥१३-१४-१३७॥
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता। जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥१३-१४-१३८॥
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः। अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः ॥१३-१४-१३९॥
असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः। प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥१३-१४-१४०॥
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः। दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥१३-१४-१४१॥
वामपार्श्वगतश्चैव तथा नारायणः स्थितः। वैनतेयं समास्थाय शङ्खचक्रगदाधरः ॥१३-१४-१४२॥
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः। शक्तिं कण्ठे समादाय द्वितीय इव पावकः ॥१३-१४-१४३॥
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम्। शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥१३-१४-१४४॥
स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा। शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥१३-१४-१४५॥
तेऽभिवाद्य महात्मानं परिवार्य समन्ततः। अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा ॥१३-१४-१४६॥
ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन्। ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ॥ गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् ॥१३-१४-१४७॥
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः। अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ॥१३-१४-१४८॥
तेषां मध्यगतो देवो रराज भगवाञ्शिवः। शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् ॥ ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् ॥१३-१४-१४९॥
नमो देवाधिदेवाय महादेवाय वै नमः। शक्राय शक्ररूपाय शक्रवेषधराय च ॥१३-१४-१५०॥
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च। पिनाकपाणये नित्यं खड्गशूलधराय च ॥१३-१४-१५१॥
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे। कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ॥१३-१४-१५२॥
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च। शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥१३-१४-१५३॥
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः। आत्मा च सर्वभूतानां साङ्ख्ये पुरुष उच्यसे ॥१३-१४-१५४॥
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः। आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः ॥ कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यसे ॥१३-१४-१५५॥
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः। वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे ॥१३-१४-१५६॥
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः। ग्राम्याणां गोवृषश्चासि भगवाँल्लोकपूजितः ॥१३-१४-१५७॥
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः। पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च ॥१३-१४-१५८॥
सामवेदश्च वेदानां यजुषां शतरुद्रियम्। सनत्कुमारो योगीनां साङ्ख्यानां कपिलो ह्यसि ॥१३-१४-१५९॥
शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि। ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ॥१३-१४-१६०॥
क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः। वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ॥ आदिस्त्वमसि लोकानां संहर्ता काल एव च ॥१३-१४-१६१॥
यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम्। तत्सर्वं भगवानेव इति मे निश्चिता मतिः ॥१३-१४-१६२॥
नमस्ते भगवन्देव नमस्ते भक्तवत्सल। योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसम्भव ॥१३-१४-१६३॥
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च। अनैश्वर्येण युक्तस्य गतिर्भव सनातन ॥१३-१४-१६४॥
यं चापराधं कृतवानज्ञानात्परमेश्वर। मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥१३-१४-१६५॥
मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात्। तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर ॥१३-१४-१६६॥
एवं स्तुत्वाहमीशानं पाद्यमर्घ्यं च भक्तितः। कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ॥१३-१४-१६७॥
ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता। पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥१३-१४-१६८॥
दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिङ्करैः। ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥१३-१४-१६९॥
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः। अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ॥१३-१४-१७०॥
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः। मयि भक्तिं परां दिव्यामेकभावादवस्थिताम् ॥१३-१४-१७१॥
एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना। ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥१३-१४-१७२॥
भगवन्देवदेवेश लोकनाथ जगत्पते। लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥१३-१४-१७३॥
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा। आह मां भगवानीशः प्रहसन्निव शङ्करः ॥१३-१४-१७४॥
वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुङ्गव। दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥१३-१४-१७५॥
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम्। तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान् ॥१३-१४-१७६॥
एवमुक्तस्य चैवाथ महादेवेन मे विभो। हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते ॥१३-१४-१७७॥
अब्रुवं च तदा देवं हर्षगद्गदया गिरा। जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः ॥१३-१४-१७८॥
अद्य जातो ह्यहं देव अद्य मे सफलं तपः। यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ॥१३-१४-१७९॥
यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम्। तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ॥१३-१४-१८०॥
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम्। षड्विंशकमिति ख्यातं यत्परात्परमक्षरम् ॥१३-१४-१८१॥
स एष भगवान्देवः सर्वतत्त्वादिरव्ययः। सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ॥१३-१४-१८२॥
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम्। वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ॥ युगान्ते चैव सम्प्राप्ते रुद्रमङ्गात्सृजत्प्रभुः ॥१३-१४-१८३॥
स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम्। कालो भूत्वा महातेजाः संवर्तक इवानलः ॥१३-१४-१८४॥
एष देवो महादेवो जगत्सृष्ट्वा चराचरम्। कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ॥१३-१४-१८५॥
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः। आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ॥१३-१४-१८६॥
यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः। भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शङ्कर ॥१३-१४-१८७॥
अतीतानागतं चैव वर्तमानं च यद्विभो। जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम ॥१३-१४-१८८॥
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः। आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते ॥१३-१४-१८९॥
एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः। महेश्वरो महातेजाश्चराचरगुरुः प्रभुः ॥१३-१४-१९०॥
अजरश्चामरश्चैव भव दुःखविवर्जितः। शीलवान्गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः ॥१३-१४-१९१॥
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम्। क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ॥१३-१४-१९२॥
तत्र ते भविता कामं सांनिध्यं पयसो निधेः। क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ॥१३-१४-१९३॥
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि। सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥१३-१४-१९४॥
तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि। स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् ॥१३-१४-१९५॥
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः। ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत ॥१३-१४-१९६॥
एवं दृष्टो मया कृष्ण देवदेवः समाधिना। तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥१३-१४-१९७॥
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान्। ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ॥१३-१४-१९८॥
पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान्। सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः ॥ सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ॥१३-१४-१९९॥