13.015
उपमन्युरुवाच॥
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः। कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥१३-१५-१॥
त्वादृशेन हि देवानां श्लाघनीयः समागमः। ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत ॥ जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम् ॥१३-१५-२॥
कृष्ण उवाच॥
अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने। द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् ॥१३-१५-३॥
दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि। दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ॥१३-१५-४॥
मासमेकं फलाहारो द्वितीयं सलिलाशनः। तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः ॥१३-१५-५॥
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः। तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥१३-१५-६॥
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन। इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् ॥ नीलशैलचयप्रख्यं बलाकाभूषितं घनम् ॥१३-१५-७॥
तमास्थितश्च भगवान्देव्या सह महाद्युतिः। तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥१३-१५-८॥
रराज भगवांस्तत्र देव्या सह महेश्वरः। सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥१३-१५-९॥
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः। अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् ॥१३-१५-१०॥
किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम्। पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम् ॥१३-१५-११॥
दिव्यां मालामुरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम्। चन्द्रं यथा परिविष्टं ससन्ध्यं; वर्षात्यये तद्वदपश्यमेनम् ॥१३-१५-१२॥
प्रमथानां गणैश्चैव समन्तात्परिवारितम्। शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥१३-१५-१३॥
एकादश तथा चैनं रुद्राणां वृषवाहनम्। अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् ॥१३-१५-१४॥
आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ। विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ॥१३-१५-१५॥
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ। ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥१३-१५-१६॥
योगीश्वराः सुबहवो योगदं पितरं गुरुम्। ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥१३-१५-१७॥
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा। मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः ॥१३-१५-१८॥
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः। दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ॥१३-१५-१९॥
सनत्कुमारो वेदाश्च इतिहासास्तथैव च। मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥१३-१५-२०॥
मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः। भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥१३-१५-२१॥
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः। यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥१३-१५-२२॥
प्रजानां पतयः सर्वे सरितः पन्नगा नगाः। देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ॥१३-१५-२३॥
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च। नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ॥१३-१५-२४॥
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः। दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् ॥ विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ॥१३-१५-२५॥
सर्वाणि चैव भूतानि स्थावराणि चराणि च। नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ॥ पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः ॥१३-१५-२६॥
पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत। सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ॥१३-१५-२७॥
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा। ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ॥१३-१५-२८॥
शिरसा वन्दिते देवे देवी प्रीता उमाभवत्। ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥१३-१५-२९॥
नमोऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वामृषयो वदन्ति। तपश्च सत्त्वं च रजस्तमश्च; त्वामेव सत्यं च वदन्ति सन्तः ॥१३-१५-३०॥
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः। धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥१३-१५-३१॥
त्वत्तो जातानि भूतानि स्थावराणि चराणि च। त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ॥१३-१५-३२॥
ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः। ये वा दिविस्था देवताश्चापि पुंसां; तस्मात्परं त्वामृषयो वदन्ति ॥१३-१५-३३॥
वेदाः यज्ञाश्च सोमश्च दक्षिणा पावको हविः। यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशयम् ॥१३-१५-३४॥
इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये। ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ॥१३-१५-३५॥
कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः। आधयो व्याधयश्चैव भगवंस्तनयास्तव ॥१३-१५-३६॥
कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः। मनसः परमा योनिः स्वभावश्चापि शाश्वतः ॥ अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः ॥१३-१५-३७॥
आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः। महानात्मा मतिर्ब्रह्मा विश्वः शम्भुः स्वयम्भुवः ॥१३-१५-३८॥
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः। पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ॥१३-१५-३९॥
त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति। हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ॥१३-१५-४०॥
सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः। सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥१३-१५-४१॥
फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु। त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः ॥ अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥१३-१५-४२॥
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये। ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ॥१३-१५-४३॥
यस्त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम्। हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥१३-१५-४४॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः। प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥१३-१५-४५॥
एवमुक्ते मया पार्थ भवे चार्तिविनाशने। चराचरं जगत्सर्वं सिंहनादमथाकरोत् ॥१३-१५-४६॥
सविप्रसङ्घाश्च सुरासुराश्च; नागाः पिशाचाः पितरो वयांसि। रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव तथा प्रणेमुः ॥१३-१५-४७॥
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम्। राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥१३-१५-४८॥
निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः। शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः ॥१३-१५-४९॥
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन्। क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि ॥१३-१५-५०॥
वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम। ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥१३-१५-५१॥