13.042
भीष्म उवाच॥
विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः। तपोयुक्तमथात्मानममन्यत च वीर्यवान् ॥१३-४२-१॥
स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते। चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु ॥१३-४२-२॥
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः। कर्मणा तेन कौरव्य तपसा विपुलेन च ॥१३-४२-३॥
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन। रुच्या भगिन्या दानं वै बभूव धनधान्यवत् ॥१३-४२-४॥
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना। बिभ्रती परमं रूपं जगामाथ विहायसा ॥१३-४२-५॥
तस्याः शरीरात्पुष्पाणि पतितानि महीतले। तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥१३-४२-६॥
तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना। तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ॥१३-४२-७॥
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती। भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥१३-४२-८॥
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी। आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान् ॥१३-४२-९॥
पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना। भगिनीं चोदयामास पुष्पार्थे चारुलोचना ॥१३-४२-१०॥
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना। भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ॥१३-४२-११॥
ततो विपुलमानाय्य देवशर्मा महातपाः। पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ॥१३-४२-१२॥
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः। स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ॥१३-४२-१३॥
यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात्। अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ॥१३-४२-१४॥
ततः स तानि जग्राह दिव्यानि रुचिराणि च। प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ॥१३-४२-१५॥
सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः। ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् ॥१३-४२-१६॥
स वने विजने तात ददर्श मिथुनं नृणाम्। चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ॥१३-४२-१७॥
तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन्। एकस्तु न तथा राजंश्चक्रतुः कलहं ततः ॥१३-४२-१८॥
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः। नेति नेति च तौ तात परस्परमथोचतुः ॥१३-४२-१९॥
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा। मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ॥१३-४२-२०॥
आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै। विपुलस्य परे लोके या गतिः सा भवेदिति ॥१३-४२-२१॥
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत्। एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः ॥१३-४२-२२॥
मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः। अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै ॥१३-४२-२३॥
एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम। अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः ॥१३-४२-२४॥
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः। अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ॥१३-४२-२५॥
कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै। विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् ॥१३-४२-२६॥
यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत्। विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ॥१३-४२-२७॥
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम्। जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ॥१३-४२-२८॥
स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः। दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥१३-४२-२९॥
तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः। इदमासीन्मनसि च रुच्या रक्षणकारितम् ॥१३-४२-३०॥
लक्षणं लक्षणेनैव वदनं वदनेन च। विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा ॥१३-४२-३१॥
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा। अमन्यत महाभाग तथा तच्च न संशयः ॥१३-४२-३२॥
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ। पूजयामास च गुरुं विधिवत्स गुरुप्रियः ॥१३-४२-३३॥