Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.056
च्यवन उवाच॥
अवश्यं कथनीयं मे तवैतन्नरपुङ्गव। यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप ॥१३-५६-१॥
भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप। ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥१३-५६-२॥
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप। आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः ॥१३-५६-३॥
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः। और्वो नाम महातेजा ज्वलनार्कसमद्युतिः ॥१३-५६-४॥
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति। महीं सपर्वतवनां यः करिष्यति भस्मसात् ॥१३-५६-५॥
कञ्चित्कालं तु तं वह्निं स एव शमयिष्यति। समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ॥१३-५६-६॥
पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम्। साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥१३-५६-७॥
क्षत्रियाणामभावाय दैवयुक्तेन हेतुना। स तु तं प्रतिगृह्यैव पुत्रे सङ्क्रामयिष्यति ॥१३-५६-८॥
जमदग্নौ महाभागे तपसा भावितात्मनि। स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ॥१३-५६-९॥
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति। उद्भावनार्थं भवतो वंशस्य नृपसत्तम ॥१३-५६-१०॥
गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः। ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति ॥१३-५६-११॥
क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा। विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ॥ तपसा महता युक्तं प्रदास्यति महाद्युते ॥१३-५६-१२॥
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः। पितामहनियोगाद्वै नान्यथैतद्भविष्यति ॥१३-५६-१३॥
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति। भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् ॥१३-५६-१४॥
भीष्म उवाच॥
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः। श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ॥ एवमस्त्विति धर्मात्मा तदा भरतसत्तम ॥१३-५६-१५॥
च्यवनस्तु महातेजाः पुनरेव नराधिपम्। वरार्थं चोदयामास तमुवाच स पार्थिवः ॥१३-५६-१६॥
बाढमेवं ग्रहीष्यामि कामं त्वत्तो महामुने। ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ॥१३-५६-१७॥
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः। अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥१३-५६-१८॥
एतत्ते कथितं सर्वमशेषेण मया नृप। भृगूणां कुशिकानां च प्रति सम्बन्धकारणम् ॥१३-५६-१९॥
यथोक्तं मुनिना चापि तथा तदभवन्नृप। जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह ॥१३-५६-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.