14.065
परिक्षित्संजीवनम्
वैशम्पायन उवाच॥
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्। उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् ॥१४-६५-१॥
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः। यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति ॥१४-६५-२॥
रौक्मिणेयेन सहितो युयुधानेन चैव ह। चारुदेष्णेन साम्बेन गदेन कृतवर्मणा ॥१४-६५-३॥
सारणेन च वीरेण निशठेनोल्मुकेन च। बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा ॥१४-६५-४॥
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः। समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः ॥१४-६५-५॥
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः। प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥१४-६५-६॥
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः। विदुरेण महातेजास्तथैव च युयुत्सुना ॥१४-६५-७॥
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय। जज्ञे तव पिता राजन्परिक्षित्परवीरहा ॥१४-६५-८॥
स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः। शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः ॥१४-६५-९॥
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः। आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् ॥१४-६५-१०॥
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा। युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः ॥१४-६५-११॥
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्। क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः ॥१४-६५-१२॥
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्। सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप ॥१४-६५-१३॥
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा। प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा ॥१४-६५-१४॥
वासुदेव महाबाहो सुप्रजा देवकी त्वया। त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् ॥१४-६५-१५॥
यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो। अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव ॥१४-६५-१६॥
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन। अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो ॥१४-६५-१७॥
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ। उत्तरां च सुभद्रां च द्रौपदीं मां च माधव ॥१४-६५-१८॥
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा। सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि ॥१४-६५-१९॥
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च। पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे ॥१४-६५-२०॥
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च। प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन ॥१४-६५-२१॥
उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन। अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः ॥१४-६५-२२॥
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा। मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति ॥१४-६५-२३॥
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति। अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् ॥१४-६५-२४॥
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा। कथयामास दुर्धर्षस्तथा चैतन्न संशयः ॥१४-६५-२५॥
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन। कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् ॥१४-६५-२६॥
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना। उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि ॥१४-६५-२७॥
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः। स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो ॥१४-६५-२८॥
एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः। भूमौ निपतितां चैनां सान्त्वयामास भारत ॥१४-६५-२९॥