14.066
वैशम्पायन उवाच॥
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा। दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ॥१४-६६-१॥
पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः। परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ॥१४-६६-२॥
इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता। सोत्तरायां निपतिता विजये मयि चैव ह ॥१४-६६-३॥
सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव। यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो ॥१४-६६-४॥
किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः। भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥१४-६६-५॥
श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च। मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ॥१४-६६-६॥
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः। ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ॥१४-६६-७॥
भवितातः परं दुःखं किं नु मन्ये जनार्दन। अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम ॥१४-६६-८॥
साहं प्रसादये कृष्ण त्वामद्य शिरसा नता। पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ॥१४-६६-९॥
यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव। तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ॥१४-६६-१०॥
अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम। अहं सञ्जीवयिष्यामि किरीटितनयात्मजम् ॥१४-६६-११॥
इत्येतद्वचनं श्रुत्वा जानमाना बलं तव। प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः ॥१४-६६-१२॥
यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम्। सफलं वृष्णिशार्दूल मृतां मामुपधारय ॥१४-६६-१३॥
अभिमन्योः सुतो वीर न सञ्जीवति यद्ययम्। जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ॥१४-६६-१४॥
सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम्। सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः ॥१४-६६-१५॥
त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः। स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ॥१४-६६-१६॥
इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान्। किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ॥१४-६६-१७॥
प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते। कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ॥१४-६६-१८॥
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः। प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि ॥१४-६६-१९॥