14.080
वैशम्पायन उवाच॥
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा। उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ॥१४-८०-१॥
ततः सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः। मातरं तामथालोक्य रणभूमावथाब्रवीत् ॥१४-८०-२॥
इतो दुःखतरं किं नु यन्मे माता सुखैधिता। भूमौ निपतितं वीरमनुशेते मृतं पतिम् ॥१४-८०-३॥
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्। मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ॥१४-८०-४॥
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते। व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥१४-८०-५॥
दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते। यत्र नाहं न मे माता विप्रयुज्येत जीवितात् ॥१४-८०-६॥
अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि। व्यपविद्धं हतस्येह मया पुत्रेण पश्यत ॥१४-८०-७॥
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि। शयानं वीरशयने मया पुत्रेण पातितम् ॥१४-८०-८॥
ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः। कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः ॥१४-८०-९॥
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे। सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥१४-८०-१०॥
दुश्चरा द्वादश समा हत्वा पितरमद्य वै। ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥१४-८०-११॥
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे। प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ॥१४-८०-१२॥
पश्य नागोत्तमसुते भर्तारं निहतं मया। कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥१४-८०-१३॥
सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम्। न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ॥१४-८०-१४॥
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि। भव प्रीतिमती देवि सत्येनात्मानमालभे ॥१४-८०-१५॥
इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः। उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥१४-८०-१६॥
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च। त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥१४-८०-१७॥
यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः। अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥१४-८०-१८॥
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्। नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥१४-८०-१९॥
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते। पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ॥१४-८०-२०॥
एष ह्येको महातेजाः पाण्डुपुत्रो धनञ्जयः। पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥१४-८०-२१॥
इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः। उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥१४-८०-२२॥