Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.088
अर्जुनप्रत्यागमनम्
वैशम्पायन उवाच॥
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान्। दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् ॥१४-८८-१॥
उपयाता नरव्याघ्रा य इमे जगदीश्वराः। एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः ॥१४-८८-२॥
इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना। भीमसेनो महातेजा यमाभ्यां सह भारत ॥१४-८८-३॥
अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्। बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः ॥१४-८८-४॥
युयुधानेन सहितः प्रद्युम्नेन गदेन च। निशठेनाथ साम्बेन तथैव कृतवर्मणा ॥१४-८८-५॥
तेषामपि परां पूजां चक्रे भीमो महाभुजः। विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः ॥१४-८८-६॥
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः। अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ॥१४-८८-७॥
स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम्। धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः ॥१४-८८-८॥
आगमद्द्वारकावासी ममाप्तः पुरुषो नृप। योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसङ्ग्रामकर्शितम् ॥१४-८८-९॥
समीपे च महाबाहुमाचष्ट च मम प्रभो। कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ॥१४-८८-१०॥
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः। दिष्ट्या स कुशली जिष्णुरुपयाति च माधव ॥१४-८८-११॥
तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः। तदाख्यातुमिहेच्छामि भवता यदुनन्दन ॥१४-८८-१२॥
इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा। प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ॥१४-८८-१३॥
इदमाह महाराज पार्थवाक्यं नरः स माम्। वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ॥१४-८८-१४॥
आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति। तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः ॥१४-८८-१५॥
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद। न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत् ॥१४-८८-१६॥
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम्। राजद्वेषाद्विनश्येयुर्नेमाः राजन्प्रजाः पुनः ॥१४-८८-१७॥
इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्। धनञ्जयस्य नृपते तन्मे निगदतः शृणु ॥१४-८८-१८॥
उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः। पुत्रो मम महातेजा दयितो बभ्रुवाहनः ॥१४-८८-१९॥
तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत्। स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ॥१४-८८-२०॥
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः। अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ॥१४-८८-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.