Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.005
धृतराष्ट्रस्य वनगमनसंकल्पः
धृतराष्ट्र उवाच॥
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः। ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥१५-५-१॥
योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम्। दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् ॥१५-५-२॥
यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत्। वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ॥१५-५-३॥
पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः। विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च ॥१५-५-४॥
पदे पदे भगवता व्यासेन च महात्मना। सञ्जयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् ॥१५-५-५॥
यच्चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु। न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् ॥१५-५-६॥
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः। एतच्छ्रेयः स परमममन्यत जनार्दनः ॥१५-५-७॥
सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा। हृदये शल्यभूतानि धारयामि सहस्रशः ॥१५-५-८॥
विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै। अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः ॥१५-५-९॥
चतुर्थे नियते काले कदाचिदपि चाष्टमे। तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ॥१५-५-१०॥
करोत्याहारमिति मां सर्वः परिजनः सदा। युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः ॥१५-५-११॥
भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः। नियमव्यपदेशेन गान्धारी च यशस्विनी ॥१५-५-१२॥
हतं पुत्रशतं शूरं सङ्ग्रामेष्वपलायिनम्। नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः ॥ इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ॥१५-५-१३॥
भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे। सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः ॥१५-५-१४॥
महादानानि दत्तानि श्राद्धानि च पुनः पुनः। प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् ॥ गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥१५-५-१५॥
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः। समतीता नृशंसास्ते धर्मेण निहता युधि ॥१५-५-१६॥
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन। सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः ॥१५-५-१७॥
आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे। गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥१५-५-१८॥
त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः। राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ॥१५-५-१९॥
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्। चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ॥ तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः ॥१५-५-२०॥
उचितं नः कुले तात सर्वेषां भरतर्षभ। पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप ॥१५-५-२१॥
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन्। पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥१५-५-२२॥
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि। फलभाजो हि राजानः कल्याणस्येतरस्य वा ॥१५-५-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.