15.006
युधिष्ठिर उवाच॥
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप। धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ॥१५-६-१॥
योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप। यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह ॥१५-६-२॥
अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना। विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः ॥१५-६-३॥
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा। यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् ॥१५-६-४॥
पीडितं चापि जानामि राज्यमात्मानमेव च। अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर ॥१५-६-५॥
भवान्पिता भवान्माता भवान्नः परमो गुरुः। भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् ॥१५-६-६॥
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम। अस्तु राजा महाराज यं चान्यं मन्यते भवान् ॥१५-६-७॥
अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम्। न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि ॥१५-६-८॥
नाहं राजा भवान्राजा भवता परवानहम्। कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ॥१५-६-९॥
न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ। भवितव्यं तथा तद्धि वयं ते चैव मोहिताः ॥१५-६-१०॥
वयं हि पुत्रा भवतो यथा दुर्योधनादयः। गान्धारी चैव कुन्ती च निर्विशेषे मते मम ॥१५-६-११॥
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि। पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे ॥१५-६-१२॥
इयं हि वसुसम्पूर्णा मही सागरमेखला। भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ॥१५-६-१३॥
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये। त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ॥१५-६-१४॥
भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप। दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् ॥१५-६-१५॥
धृतराष्ट्र उवाच॥
तापस्ये मे मनस्तात वर्तते कुरुनन्दन। उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो ॥१५-६-१६॥
चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया। वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप ॥१५-६-१७॥
वैशम्पायन उवाच॥
इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम्। उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः ॥१५-६-१८॥
सञ्जयं च महामात्रं कृपं चापि महारथम्। अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् ॥१५-६-१९॥
ग्लायते मे मनो हीदं मुखं च परिशुष्यति। वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि ॥१५-६-२०॥
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः। गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् ॥१५-६-२१॥
तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम्। आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा ॥१५-६-२२॥
युधिष्ठिर उवाच॥
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम्। सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत् ॥१५-६-२३॥
आयसी प्रतिमा येन भीमसेनस्य वै पुरा। चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् ॥१५-६-२४॥
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्। यत्कृते पृथिवीपालः शेतेऽयमतथोचितः ॥१५-६-२५॥
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम। यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी ॥१५-६-२६॥
वैशम्पायन उवाच॥
ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः। उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ॥१५-६-२७॥
तेन रत्नौषधिमता पुण्येन च सुगन्धिना। पाणिस्पर्शेन राज्ञस्तु राजा सञ्ज्ञामवाप ह ॥१५-६-२८॥