Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.018
अर्जुनयुधिष्ठिरयोः वाक्ये
अर्जुन उवाच॥
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे। धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति ॥१५-१८-१॥
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च। असम्भिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः ॥१५-१८-२॥
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम्। यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् ॥१५-१८-३॥
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्। मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः ॥१५-१८-४॥
वैशम्पायन उवाच॥
इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत्। भीमसेनः कटाक्षेण वीक्षां चक्रे धनञ्जयम् ॥१५-१८-५॥
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः। न भीमसेने कोपं स नृपतिः कर्तुमर्हति ॥१५-१८-६॥
परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः। दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव ॥१५-१८-७॥
किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम्। यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति ॥१५-१८-८॥
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः। न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः ॥१५-१८-९॥
यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि। तस्य स्वामी महाराज इति वाच्यः स पार्थिवः ॥१५-१८-१०॥
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः। पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः ॥१५-१८-११॥
इदं चापि शरीरं मे तवायत्तं जनाधिप। धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः ॥१५-१८-१२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.