Mahabharata - Āśramavāsika Parva (महाभारत - आश्रमवासिकपर्वम्)
15.019
विदुरवाक्यम्
वैशम्पायन उवाच॥
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः। धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् ॥१५-१९-१॥
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः। स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः ॥१५-१९-२॥
बीभत्सुश्च महातेजा निवेदयति ते गृहान्। वसु तस्य गृहे यच्च प्राणानपि च केवलान् ॥१५-१९-३॥
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च। अनुजानाति राजर्षे यच्चान्यदपि किञ्चन ॥१५-१९-४॥
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत। कृच्छ्रादिव महाबाहुरनुमन्ये विनिःश्वसन् ॥१५-१९-५॥
स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा। अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च ॥१५-१९-६॥
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट्। संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत् ॥१५-१९-७॥
एवम्प्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप। युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः ॥१५-१९-८॥
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः। प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत् ॥१५-१९-९॥
प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव। त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत ॥१५-१९-१०॥
ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम्। इतो रत्नानि गाश्चैव दासीदासमजाविकम् ॥१५-१९-११॥
आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु। दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया ॥१५-१९-१२॥
बह्वन्नरसपानाढ्याः सभा विदुर कारय। गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत् ॥१५-१९-१३॥
इति मामब्रवीद्राजा पार्थश्चैव धनञ्जयः। यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥१५-१९-१४॥
इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत्। मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय ॥१५-१९-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.