Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.007
Library: Agni defends his truthful testimony to Bhṛgu, explaining the duty of a witness and his cosmic sacrificial role. After Bhṛgu's curse causes Agni to withdraw from sacrificial functions, the gods appeal to Brahmā, who reconciles the curse by declaring that Agni's flames purify all they consume while preserving his role as the mouth of the gods.
सूत उवाच॥
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् । किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ॥१-००७-१॥
धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥१-००७-२॥
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥१-००७-३॥
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते । सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥१-००७-४॥
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम । जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥१-००७-५॥
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु । अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥१-००७-६॥
वेदोक्तेन विधानेन मयि यद्धूयते हविः । देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥१-००७-७॥
आपो देवगणाः सर्वे आपः पितृगणास्तथा । दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥१-००७-८॥
देवताः पितरस्तस्मात्पितरश्चापि देवताः । एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥१-००७-९॥
देवताः पितरश्चैव जुह्वते मयि यत्सदा । त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ॥१-००७-१०॥
अमावास्यां च पितरः पौर्णमास्यां च देवताः । मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥ सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥१-००७-११॥
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः । द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥१-००७-१२॥
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः । विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥१-००७-१३॥
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः । अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ॥ विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥१-००७-१४॥
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु । अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥१-००७-१५॥
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे । कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ॥ हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥१-००७-१६॥
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् । उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥१-००७-१७॥
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च । त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ॥ स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥१-००७-१८॥
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः । त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥१-००७-१९॥
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥१-००७-२०॥
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते । तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥१-००७-२१॥
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् । स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ॥ देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥१-००७-२२॥
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् । जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥१-००७-२३॥
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् । ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥१-००७-२४॥
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः । अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥१-००७-२५॥
एवमेष पुरावृत्त इतिहासोऽग्निशापजः । पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ॥१-००७-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.